varna
 
भारतम् – वैश्विक-शैक्षणिक-शिखरतः निरक्षरतायाः कन्दरायाम् – २

भारतस्य मन्दिर-विद्याकेन्द्राणि च स्नातकः समारोहः च विद्वज्जनानां कृते आर्थिकनिधिः च भारतात् विश्वे प्रसारितं ज्ञानं च लेखस्य अस्मिन् भागे वर्णितानि l

This article has been translated from English by Hiren Dave (@Vyasonmukh)

शिक्षण-विकल्पाः

प्राचीने भारते प्राथमिकशिक्षणं पूर्णं कृत्वा उच्चतराभ्यासाय विद्यार्थिभिः स्वाभिरुचिप्रमाणेन नैकाः विकल्पाः अवर्तन्त – वेदाः वा न्यायशास्त्रं/तर्कशास्त्रं वा वैदकशास्त्रं वा विज्ञानं वा सङ्गीतं वा काऽपि अन्यशाखा l संगीताभ्यासार्थं वाराणसी प्रख्यातः अस्ति स्म । खगोलशास्त्रस्य शिक्षणाय अपि वाराणसी ख्यातिप्राप्तं केन्द्रं अवर्तत l प्राचीनभारतस्य विद्याकेन्द्राणां मार्गाः अरण्यतः निर्गतेषु अतीव दुष्कराः आसन् । ४ वा १२ वर्षपरम् पूर्णे अभ्यासे बालकानां स्वदेशे प्रत्यागमनं तु एकः समारोहः इव विश्रुतः ।

कथासरित्सागरे एकस्य ब्राह्मणस्य उल्लेखः येन स्वपुत्राय उच्चाभ्यासाय दूरस्थः गुजरातस्य वल्लभिक्षेत्रस्य चयनं कृतं न तु समीपस्थः वाराणसी वा नालन्दा वा (बासुः, १९६०) । वल्लभिक्षेत्रस्य स्नातकाः राजसेवाऽऽकर्षिताः विद्यन्ते स्म l बौद्धस्य हीनयानपन्थाभ्यासः च धार्मिकविषयाः च नीतिः च वाणिज्याभ्यासः च वल्लभिकेन्द्रस्य अन्यानि आकर्षणानि सन्ति स्म (आप्टे)

भवभूति-रचिते मालतिमाधव-नाटके सहशिक्षणस्य सन्दर्भः अस्ति यस्मिन् बालबालायोः मित्रतायाः विवरणं दृश्यमानम् (मिराशी, १९९६)

तस्मिन् समये छात्राणां च शिक्षकाणां स्थानान्तरं तु एकतः अन्ये विद्याकेन्द्रे सहजमेव l प्राध्यापकः विक्रमशिलायाः तु कश्मिरे च नालन्दायाः शिक्षणप्राप्तः ह्यु-एन्-साङ्ग तु कलिङ्गक्षेत्रे अध्यापनं अकरोत् (मुखरजी, १९६०) । उज्जैनी यस्य कर्मभूमिः सः विख्यातः गणितशास्त्री भास्कराचार्यस्तु दक्षिणभारतस्य विजयपुरस्य मूलनिवासी अस्ति स्म (पुट्टस्वामी, २०१२)

Bhaskara II, head of the astronomical observatory at the famous Ujjaini University in central India was a native of Bijapur in southern India.

[भास्कराचार्यः – उज्जैन्याः प्रमुखः खगोलशास्त्री दक्षिणभारतस्य विजयपुरवासी]

उच्चशिक्षणार्थम् आर्थिकसहायः

शिक्षणपिपासु-शिक्षकाभ्यां शिक्षणकार्यार्थं राजकुलेन वा श्रेष्ठिभिः वा दत्तः आर्थिकसहायस्तु अस्याः शिक्षणव्यवस्थायाः केन्द्रम् अवर्तत । नालन्दा एतादृशं विद्याकेन्द्रमेव यस्य लाभाय प्रायः शतानां ग्रामाणां आयः मुख्याधारः अस्ति स्म । जीवनोपयोगीवस्तूनां वितरणं शिक्षणपिपासु-शिक्षकाभ्यां तु विना मूल्यं अभवत् (मुखरजी, १९६०) 

जातक-कथानुसारेण विद्यार्थिभिः विद्याप्राप्त्यर्थं शुल्कप्रदानं तु अभ्यासारम्भस्य पूर्वमेव भवेत् इति नियमः अस्ति स्म । न भूते शुल्कप्रदाने तु सेवा-प्रदान-माध्यमेन (अध्यापकस्य सेवा वा विद्याकेन्द्रस्य सेवा वा) अभ्यासपूर्णाहूतिः भवति स्म l प्रायः ब्राह्मण-छात्राः दरिद्राः एव अतः तेषाम् कृते सेवामाध्यमं हि एकः विकल्पः अवर्तत । शुल्कप्रदानम् अभ्यासान्तेऽपि अन्य-गृहस्थपरिवार-सहायेन शक्यम् l प्राप्ते छात्रवृत्तौ (Scholarship) तु शुल्कप्रदानात् मुक्तिप्राप्तिः l गृहस्थपरिवाराभिः छात्राणां कृते विना मूल्यं भोजनव्यवस्था अपि अभवत् (मुखरजी, १९६०) 

अतः शिक्षणाधाररूपमिव सुव्यवस्थितं वातावरणं विद्यते स्म l समाजव्यवस्थायाः एकेन भागरूपेण हि विना धनसञ्चयं च विना भौतिकसुखनिमग्नं च ज्ञानपथे अटनम् इति ब्राह्मणस्य कर्तव्यम् आसीत् अतएव समाजस्य अन्यवर्णाः सदैव तत्पराः अभवन् ब्राह्मणस्य शिक्षामूल्यं वोढुम् (हज़रा, १९८७)

स्नातक-प्रणाली (संवर्तनम्)

प्राचीने भारते प्रवर्तमाना स्नातकविधिः (Graduation Process) नाम संवर्तनम् । उपस्थित्यां सर्व-विद्यार्थी-अध्यापक-अभ्यागत-गणे छात्रेण गुरुदक्षिणायाः अर्पणविधिः अभवत् । तदनन्तरं तैत्तरिय-उपनिषदः गुरुः स्नातकविधिज्ञानं आरभ्यते स्म l अन्ते सहोमं प्रणालिगतं स्नानं अवर्तत (काणे, १९४१)
The Snataka Dharma recitation from Shiksha Valli in the Taittiriya Upanishad was an important ritual in the graduation ceremony.

[ स्नातकधर्मः – शिक्षावल्ली, तैत्तरियोपनिषद् ]

 

आंशिकः अनुवादः स्नातकधर्मस्य –

 

सत्यात् कदापि न चलितव्यम् ।

 

धर्मात् कदापि न चलितव्यम् ।

 

स्वक्षेमकुशलस्य अवगणना कदापि न करणीयम् ।

 

वैश्विकप्रवृतीनाम् अवगणना (समाजस्य कल्याणार्थम्) कदापि न करणीयम् ।

 

स्वाध्यायस्य च वेदप्रवचनस्य च अवगणना कदापि न भवितव्यम् ।

 

मातृदेवो भव। पितृदेवो भव । आचार्यदेवो भव । अतिथिदेवो भव ।

 

गुरोः आशीर्वादेन च स्वज्ञानेन च स्नातक-पदवी-प्राप्त-ज्ञानपथिकाय जीवनस्य द्वितीयः अध्यायः – अध्ययनं च विवाहश्च – भवति स्म ।

 

भारतस्य मन्दिर-विद्याकेन्द्राणि

Photo courtesy Kanniks Kannikeswaran

[ छायाचित्रस्य सौजन्यम् – Kanniks Kannikeswaran ]

प्राचीने भारते मन्दिराणि तु ज्ञानबिन्दवः च ज्ञानचर्चाकेन्द्राणि च अभवन् । ऋग्वेदे वर्णितानि ज्ञानबिन्दवः तत्वज्ञानं / दर्शनम् आदीनां ज्ञानयात्रया मन्दिराणां वातावरणं जीवन्तं अविद्यत । एतादृशानि मन्दिराणि ज्ञानपिपासूनां कृते आकर्षणकेन्द्राणि इव । एतेभ्यः सहायसमृद्धेभ्यः मन्दिरेभ्यः नैकाः दार्शनिकाश्च बौध्धिकाश्च अजायन् ।

प्राप्तेषु शीलालेखेषु दक्षिणभारतस्थ-मन्दिरेषु ज्ञातं उच्चशिक्षणस्य संस्थागतरूपम् । तामिलनाडुराज्यस्य एन्नायीरमे स्थले प्राप्ते उत्कीर्ण-लेखे राजेन्द्र-चोळ-१-राजेण (११तमः शतकः) शिक्षणार्थम् दत्तस्य अनुदानस्य (Grant) लघुत्तमा सूचनापि दृश्यमाना । ३४० वेदपाठिणां कृते वार्षिक-सहायः च पाठिताः विषयाः च विद्याकेन्द्रस्य कृते दत्ता भूमिः च आदयः वर्णिताः सन्ति । प्रत्येकं विद्यार्थिभ्यः अभ्यासमूल्यस्य तोलनं तु उपार्जित-धान्यात् उपार्जित-सुवर्णमुद्रातः विद्यते स्म । वेदान्त-मीमांसा-व्याकरण-विद्यार्थिनः प्राप्तः सहायः ६६% अधिकः वर्तते स्म । एकस्य शिक्षकस्य भोजनवेतनं तु १६ विद्यार्थीतूल्यम् अस्ति स्म । विषयानुसार-विद्यार्थी-सङ्ख्यापि एतेभ्यः अभिलेखेभ्यः प्राप्ता (मुखरजी, १९६०)

२०१३ तमे वर्षे पुरातत्वविभागेण मन्दिरस्य भूगर्भात् अन्याः अभिलेखाः अपि प्राप्ताः (सुब्रह्मण्यन् , २००३)

 

A temple inscription in Ennayiram, Tamil Nadu describing a college attached to a temple along with a hostel and hospital. Photo courtesy: Tamil Nadu Tourism (http://tamilnadu-favtourism.blogspot.sg)

[ एन्नायीरम् , तामिलनाडुतः प्राप्तः अभिलेखः, छायाचित्र-सौजन्यम् – तामिलनाडु-प्रवास-विभागः । (http://tamilnadu-favtourism.blogspot.sg)]

 

केचन अभिलेखाः रुग्णालय-समृद्ध-विद्याकेन्द्राणां उल्लेखः अपि कुर्वन्ति अतः छात्र-स्वास्थ्यमपि अस्पृश्यं नास्ति स्म । रुग्णालयानि अद्यतन-सुविधा-सज्जानि च कुशलचिकित्सक-सहायक-समृद्धानि च उपयोगी-औषधि-युक्तानि च अभवन् (मुखरजी, १९६०)

प्राचीन-भारतस्य उत्कृष्ट-प्रशिक्षण-केन्द्राणि

घटिकश्च अग्रहारश्च मठश्च – अपरं विद्याकेन्द्राणि प्राचीने भारते विद्यते स्म । विद्वदाचार्यसमूहस्तु घटिकः यः वैदिकतत्वचर्चारतः एव । काञ्चीपुरस्तु वैदिकशिक्षाकेन्द्रम् आसीत् । तत्र घटिकानाम् भूमिका मुख्या आसीत् । नृपस्य चयनप्रक्रीयायामपि तेषाम् मतः महत्वपूर्णः अभवत् ।

अग्रहारः तु विदुषां ब्राह्मणानां समाजः यः स्वनिर्मित-नियमाधिनः आसीत् । एतस्य समाजस्य निर्वाहस्तु धनिकवर्गतः दानप्राप्तिरेव अभवत् । मठोऽपि आधुनिक-शिक्षणस्य प्रधानं केन्द्रमासीत् (मुखरजी, १९६०)
 

Agraharas were entire settlements of learned Brahmins. Photo courtesy incredibleindiaphotogallery.com

[ अग्रहारः – विदुषां ब्राह्मणानां समाजः । छायाचित्र-सौजन्यम् – incredibleindiaphotogallery.com]

अग्रहाराणां कृते आर्थिक-सहायार्थं कानिचित् ग्रामाणि दानरूपे दत्तानि इति उल्लेखः अभिलेखेषु प्राप्नोति स्म । ब्राह्मणसङ्ख्या तु १०८ वा ३०८ इति दृश्यमाना अग्रहारे । ते ब्राह्मणाः तु प्रायः चतुर्वेदी, त्रिवेदी, सोमयागी, षडङ्गविद्, भट्टः, क्रमविद्, सर्वक्रतुयज्ञी, वाजपेयी च आसन् । संप्राप्ते अनुदाने “सरस्वती भण्डारः” नाम्नः ग्रन्थालयानां निर्माणं अकारयत् (मुखरजी, १९६०)

“अग्रहारसमाजस्तु प्रकाशसमश्च जीवनकेन्द्रसमानश्च एव आसीत् यः दर्शयति स्म तादात्म्यं सैद्धान्तिक-व्यावहारिक-ज्ञानयोः । सार्थकता इन्द्रियजन्यज्ञानस्य च जीवनमूल्यस्य च तु, उदाहरण-आचरण-माध्यमाभ्यां कथं प्राप्तव्या, इति अत्र मुख्यः विषयः । जीवनं तु अभ्यासः तर्हि सत्यं च धर्मश्च श्वासौ जीवनस्य ।

भारतीयशिक्षणसन्दर्भे केरळस्य गणित-खगोलशास्त्र-केन्द्राणि (१४-१५ शतकौ) उल्लेखनीयानि खलु । केरळस्य त्रिश्शुरे विस्तारे नाम्बूदिरि-ब्राह्मणैः गणितस्य विकासः संभवति स्म । गणिते अनन्तश्रेणी (Infinite Series) आविष्कृता तैः च कलनशास्त्रस्य (Ca।cu।us) प्रणाली आविर्भूता च – न्युटनस्य पूर्वे एव । १५तमे शतके भारते आगताः ईसाई-धर्मपरिवर्तक-सङ्घाः तं गणितं युरोपखण्डे नीतवन्तः (जोसेफ, २०००)

तेजस्विनः विद्वांसः केरळप्रदेशस्य आकर्षिताः जाताः खगोलशास्त्रस्य रहस्येषु । The Crest of Peacock – The Non-European Roots of Mathematics पुस्तके ज्योर्जघेवर्घीज़ जोसेफ लेखकानुसारेण एतेभ्यः गणितज्ञेभ्यः गणितरागस्तु सर्वोपरि एव अन्यथा माधवः (केरळस्य गणितशालायाः स्थापकः) कथं ज्या-कोष्टकेषु (Sine Tab।es) द्वादश-पर्यन्तं दशांश-अङ्कानां कृते चिन्तितः भवतु ?

केरळस्य गणितशालया सह संलग्नाः अन्यजनाः आसन् – परमेश्वरश्च नीलकण्ठश्च सोमयाजी च ज्येष्ठदेवश्च अच्युतश्च पाणीकरश्च । आवयोः केचन तु ब्राह्मणापि नासीत् – ते हीनकुलाः वा शूद्राः वा आसन् किन्तु गणितविद्यायां तेजस्विनः भवन्ति स्म । आधुनिक-समाजे कुख्यातस्य वर्णव्यवस्थायाः परिसरे प्राचीनसमाजस्तु प्रयुक्तः नासीत् ।

 

ज्ञानस्य स्थानान्तरम् – भारततः चीनदेशे

ई. प्रथमे शतके चीन-सम्राट् “मिङ्ग-ती” १८ चीनीयनागरिकान् भारतं प्रेषितवान् बुद्धस्य सिद्धान्तस्य अवगमनार्थम् । प्रत्यागते तैः सह आसन् – भूरि ग्रन्थाः च द्वौ विद्वांसौ । कश्यपमातङ्गः धर्मरत्नः च विद्वांसौ । आमन्त्रणे चीनसम्राजः कश्यपः चीनस्य अतीव दुष्करं प्रवासं गान्धारतः कृतवान् । भाषाकष्टं च नितान्तं शुष्कप्रदेशकष्टं च गोबी-मरुभूमि-कष्टं च खलु तयोः कृते । तदनन्तरमेव भारत-चीनयोः आवागमनं तु सामान्यं जातम् । संस्कृते लिखितानि नैकानि हस्तप्रतानि अनन्तरं चीनं आगतानि । अनेकाः भारतीय-अध्यापकाः अपि चीनं अगच्छन् – संघवर्मा धर्मसत्यः धर्मकालः महाबलः धर्मफलः कालरुचिः लोकरक्षः चादयः ।

बुद्ध-प्रभावित-कश्मीरतः अपि बहवः वैज्ञानिक-दृष्टिकोण-धारकाः विद्वांसः चीनं गतवन्तः । एतादृशः एकः विद्वान् तु कश्मीर-राजकुलात् सः गुणवर्मा यः श्रीलङ्कां जावां च गत्वा ख्यातिं प्राप्य चीनं गतवान् । चीनस्य सम्राट् तस्मात् प्रभावित्य तस्य शिष्यः अभवत् च तस्य एकं मन्दिरमपि चीनदेशे निर्माणं कृतवान् । अन्यः एकः धर्मरुचिः चीने ई. ६९३ – ७१३ समयपर्यन्तं आसीत् च सः प्रायः ५३ ग्रन्थानां चीनीयभाषायां भाषान्तरकार्यमपि कृतवान् (मुखरजी, १९६०)

भगीरथः प्रयासः अभवत् सहस्राधिक-संस्कृत-ग्रन्थानां चीनीयभाषानुवादे । वज्र-छेदिका-प्राज्ञ-परमीता (विख्यातं हीरकसूत्रम् ) चीने मुद्रितः सर्वप्रथमः भारतीयग्रन्थः । ई. ४०२तमे वर्षे कुमारजीवेन तस्य ग्रन्थः चीनीयभाषानुवादितः । कुमारजीवस्तु असाधारणप्रतिभाधारकः नूनम् । तस्य सेवाप्राप्त्यर्थं राज्ञोः युद्धोऽपि अभवत् ! द्वादशवर्षेषु शतकाधिकानां संस्कृतग्रन्थानां चीनीयभाषानुवादः कुमारजीवेन कृतः यं तु चीनीयसाहित्यस्य उत्कृष्टं सर्जनम् । जगत्विख्यातः चीनीययात्रालोः फा-हियानस्य गुरुः कुमारजीव एव ।

Statue of Kumarajiva in front of Kizil Caves, Kuqa, Xinjiang, China. Photo Courtesy Yoshi Canopus

[कुमारजीवस्य प्रतिमा – किज़िल-गुहानां सन्मुखे, ज़िञ्जियाङ्गः प्रान्तः, चीनदेशः, छायाचित्र-सौजन्यं – Yoshi Canopus]

अन्यः भारतीयविद्वान् धर्मक्षेमः तु कुमारजीवतुल्यः सुभगः नासीत् । तस्य मृत्युः अभवत् तस्यैव सेवाप्राप्ते युद्धे । अमोघवर्षः अन्यः तादृशः मेघावी विद्वान् आसीत् । सः कृतवान् ७७+ संस्कृतप्रतानां चीनीयभाषानुवादः । चीने देशे सः तान्त्रिकबौद्धपन्थस्य स्थापकः विद्यते (मुखरजी, १९६०)

बहवः भारतीयाः गणितशास्त्रिणः च खगोलशास्त्रिणः च काचित् विद्याधामेषु च वैज्ञानिकसंस्थासु उच्चस्थानेषु विराजन्ते स्म । गौतमसिद्धः (कुतानज़िद – चीनीभाषायांम् ) अष्टमे शतके चीनीयखगोलीयसमित्यां प्रमुखरूपेण अवर्तत । भारतीयपञ्चाङ्गस्य चीनभाषानुवादकस्तु स एव । भारतीय-अङ्कानां प्रसिद्धिः चीने तैः एव । चीनस्य मुद्रणकलायाः आविष्कारकः तु एकः बौद्ध-विद्वान् एव यः भारततः चीने आगतवान् । मुद्रणकला महद्माध्यमं बौद्ध-विचार-विस्तारार्थम् (सेनः, २००९)

ज्ञानस्य स्थानान्तरम् – भारतात् ग्रीसः च इस्लामीयविश्वः च युरोपखण्डः पर्यन्तम्

सांस्कृतिकप्राचीनता-ज्ञानप्रसारसहाय-कारणाभ्यां समग्रे विश्वे भारतं तु सुन्दरपुष्पाच्छादितं इव उद्यानं रूपेण विकसितं जातम् । “हिन्दु-चिकित्सा” नाम्नि निबन्धे पर्शियासम्राट्-खुसरोः (ई. ५३१-५७९) राजवैद्यस्य उल्लेखः अस्ति यः संस्कृतभाषाज्ञः आसीत् । तस्य नाम तु बर्ज़ुयेहः यः भारततः विविधानि औषधानि च वैदकशास्त्रान् आनीतवान् (रोइल् , १८३७) । एतत् तु दर्शयति यत् भारत-पश्चिमएशियायोः औषधस्य व्यापारोऽपि प्राचलत् ।

भारतीय-औषध-प्रणाल्यः प्राचीनतायाः विषये एके संवादे राजवेदम् नाम संस्था (सहसंस्थापकः – Indian History Awareness and Research) निर्देशयति यत् कथं आयुर्वेदस्य ज्ञानं विश्वे प्रासरेत् … यथा ऋषि-कणादस्य (ई. पू. षष्ठमे शतके) वैज्ञानिक-सिद्धान्तान् ग्रीक-तत्वचिन्तकेन डेमोक्रेटसेन (ई. पू. चतुर्थे शतके) युरोपखण्डे प्राप्तः वेगः । ज्ञानप्राप्त्यर्थं डेमोक्रेटसः मिश्रदेशस्य च पर्शियादेशस्य च यात्रामपि कृतवान् । युरोपे औषधविज्ञानस्य जनकः हिप्पोक्रेटस्तु डेमोक्रेटसस्य शिष्यः एव ।

 

 

Excerpt from page 62 of JF Royle’s “An Essay on the Antiquity of Hindoo Medicine Including an Introductory lecture to the Course of Materia Medica and Therapeutics delivered at the King’s College”

[“An Essay on the Antiquity of Hindoo Medicine Including an Introductory lecture to the Course of Materia Medica and Therapeutics delivered at the King’s College” by JF Royle, Page 62]

भारतीयज्ञानस्य पूर्वतः पश्चिमपर्यन्तं विस्तारे कार्ये एलेक्सान्ड्रीया नाम्नः ग्रन्थालयस्य सिंहभागः आसीत् । ग्रीक-चिकित्सकः डायसकोराईडस्य ग्रन्थः (ई. ५०-७०) यस्य उपयोगस्तु युरोपखण्डस्य षोडशाधिकदेशे प्रचलितः आसीत् । स ग्रन्थस्तु भारतीय-औषध-माहिती-कारणेन एव समृद्धः आसीत् (वेदम् , २०१६) । पञ्चमे शतके ईसाई-प्रार्थनास्थलेन (Church) दत्ता यातनातः धौताः केचन विद्वांसः भारतस्य केरळप्रदेशे आश्रितवन्तः । ततः तैः प्राचीन-औषधि-ज्ञानं तु सीरियादेशे आगतवत् (वेदम् , २०१६)

हारुन्-अल्-रशीदस्य समये (अब्बासीद खलिफ़त) तस्य राजसभायाः भारतीय-चिकित्सकेन सुश्रुतसंहितायाः अनुवादः पर्शियाभाषायां समभवत् । इस्लामीविज्ञाने भारतीयज्ञानस्य प्रभावस्तु सर्वस्वीकृतः । ईराकदेशस्य बग्दादनगरे भारतीयनिष्णाताम् आवागमनं तु सहजमेव । अल्-किन्दी च अल्-फ़राबी च अल्-फ़र्घानि च अल्-तबरी च अल्-ख्वारिज़मी च इस्लामीज्ञाताः गणित-वैदक-खगोल-तत्वचिन्तन-रसायण-सङ्गीत-क्षेत्रेषु भारतीयज्ञानस्य प्रसारणं कृतवन्तः (खान, २००९) । युरोपखण्डे सम्भूतः नवजागृतिः (Renaissance) एतदेव याचितं भारतीयज्ञानाभारी आसीत् (हेस्स, २०१६)

द्वादशे शतके To।edo schoo। of trans।ator (Spain) स्थितस्पेनदेशेण अरबीग्रन्थानां अनुवादः लेटिनभाषायां अभवत् (ब्रोनोस्की, २०११) । चतुर्दशशतकात् परं अनेकानां भारतीयग्रन्थानां च हस्तप्रतानां अनुवादाः युरोपखण्डे आरभ्यन्ते स्म । दक्षिणभारते शतकाधिकाः तमिलहस्तप्रताः तु ईसाई-धर्मान्तर-संस्थया (Bartho।omäus Ziegenba।g – Christian Missionary) हस्तगताः जाताः (ई. १७०६-१९०८) ।

 

Garcia D’Orta, Portuguese traveller to India wrote a detailed treatise “Colóquios dos simples e drogas da India” on the medicinal plants of India in 1563. Photo Courtesy Martins Correia.

[Garcia D’Orta, पुर्तगाली यात्री च लेखकः (Colóquios dos simples e drogas da India – भारतीय-औषधानां विषये, 1563 CE).

छायाचित्रस्य सौजन्यम् – Martins Correia]

एकादशेभ्यः शतकेभ्यः परं इस्लामीयाऽक्रमणेन च मुस्लिम-आततायिभिश्च अमर्यादाः विध्वंसाः जाताः येन कारणेन भारतीय-शिक्षण-प्रणाली प्रभाविता जाता । तदनन्तरं युरोखण्डजसंस्थानवादस्य कुप्रचारे च धर्मान्तरस्य चक्रवाते एषा रुढिगता शिक्षणव्यवस्था करालाघाता अभवत् । एतेषां सर्वेषां द्रक्ष्यामः लेखस्य तृतीये च अन्तिमे भागे । (भागः २ समाप्तः । क्रमशः ।)

The author would like to acknowledge the valuable inputs of the members of Indian History Awareness and Research (IHAR) and specially thank Kanniks Kannikeswaran for supplying pictures from his personal collection.

Bibliography

Apte, D. Universities in Ancient India.

Bose, M. (1990). A Social and Cultural History of Ancient India. Concept Publishing Company.

Bronowski, J. (2011). The Ascent of Man. BBC Books.

Hasse, D. N. (2016). Success and Suppression: Arabic Sciences and Philiosophy in the Renaissance. Harvard University Press.

Hazra, R. C. (1987). Studies in the Puranic Records on Hindu Rites and Customs. Motilal Banarsidass.

Joseph, G. G. (2000). Crest of the Peacock, Non-European Roots of Mathematics. Princeton University Press.

Kane, P. (1941). History of Dharmashastras Vol II, Part I. Bhandarkar Oriental Research Institute.

Khan, M. (2009). Islamic Jihad – A Legacy of Forced Conversion, Imperialism and Slavery. iUniverse.

Mirashi, V. V. (1996). Bhavabuti. Motilal Banarsidass.

Mookerjee, R. K. (1960). Ancient Indian Education – Brahminical and Buddhist. Motilal Banarsidass.

Muller, M. Lectures on the Science of Knowledge delivered at the Royal Institution of Great Britain in April, May and June 1861, 1868.

Philips, H. (2010). The Great Library of Alexandria?

Puttaswamy, T. (2012). Mathematical Achievements of Pre-Modern Indian Mathematicians. Elsevier.

Rao, P. N. (2008). Kanchipuram: Land of Legends, Saints and Temples. Readworthy Publications.

Royle, J. F. (1837). An Essay on the Antiquity of Hindoo Medicine Including an Introductory lecture to the Course of Materia Medica and Therapeutics delivered at the King’s College. Allen.

Russell, B. (1972). History of Western Philosophy. Simon & Schuster.

Saraswati, S. D. (2016). Taittiriya Upanishad. Arsha Vidya Research and Publication Trust.

Sen, A. (2009). The Argumentative Indian: Writings on Indian History, Culture and Identity. Allen Lane.

Subramanian, P. (2003). 100 year old, long Tamil inscription found.

Vedam, R. https://www.youtube.com/watch?v=TtoXaR7wgiI. (2016). Lecture on Antiquity of Indian Medical Systems [Youtube Video].

 

Sahana Singh is a writer/editor who specializes in environmental issues, current affairs and Indian history. She is a member of Indian History Awareness and Research (IHAR), a think tank headquartered in Houston.