रासविहारी बसुः –उषाद्वीपे भारतस्य सन्देशहरः

गौतमबुद्धात् ऋते रासविहारी ह्येवं भारतीयः अस्ति येन उषाद्वीपीयानां मनांसि प्रभावितानि सन्ति, तथा यस्मै तत्र जनेषु सहानुभूतिः अस्ति, इत्यत्र नातिशयोक्तिः ।

This article has been translated into Sanskrit by Agnimitra (@parikramah)

डॉ॰भगवान्सिंहः ज्ञानी (प्रीतमः) क्रान्तिकारिणः “ग़दर”-दलस्य अध्यक्षः आयुक्तः च आसीत् । सः रासविहारी-बसुम् एवम् अवर्णयत् –

“क्रान्तिकारिणः दुर्लभाः सन्ति, तेषु च निम्नलिखिताः प्रकाराः सन्ति –

१) निजस्य, सामाजिकस्य, आर्थिकस्य, प्राकृतिकस्य वा यथैव भवन्तु, ते तत्प्रकाराणाम् अवस्थानां परिस्थितीनां च विरोधिनः सन्ति । आक्षेपवादिनः, क्रन्दनोपेताः, कदाचित् विरोधिनः ते स्थापित-रीत्याः पूर्ववादिनः सन्ति । किञ्च, पीडने सति, तेषां संकल्पः शिथिलायते, ते संघर्षं त्यक्त्वा सन्धिं कुर्वन्ति, ततः सामान्यजनयूथे पुनर्मिलन्ति ।

२) अपि सन्ति क्रान्तिकारिणः येषां निश्चयः बलीयान् । ते राष्ट्रहिताय, स्वस्यादर्शानां प्रत्ययानां च कृते किमपि सोढुं त्यक्तुं वा सज्जाः । विरलं हि तेषाम् अवसादनं स्यात् । सामान्यतः एकाकिनः लघुगुच्छेषु वा कार्यं कुर्वन्ति ।

३) अपरे सन्ति क्रान्तिकारिणः ये मुनिदृष्टयः, वैज्ञानिकभाविनः, संघटने नायकाः च वर्तन्ते । ते राष्ट्रस्य विशदं प्रतिरूपं परिकल्पयन्ति, अपि पदे पदे नवीनं समाजं व्यवस्थातुं तेषाम् अद्वितीया योग्यता अस्ति । परस्परं कार्यं समन्वयन्ति, संग-साहाय्येन लाभान्विताः । स्वस्य तथा विशेषतः परेषां स्खलनानाम् आलोके संशोधनं कृत्वा, ते कदापि स्वयोजनाः परिवर्तयितुम् अथवा विपरिधातुं द्वन्द्वं न अनुभवन्ति, यदि तस्मात् लक्ष्यं गौरवेण, सामर्थ्येन, सलीलं च प्रापयेत् । तेषां व्यक्तित्वं चपलम् अस्ति, येन ते कस्यामपि परिस्थितौ यथोचितां संगतिं कल्पयन्ति ।

अस्माकं श्री रासविहारी बसुः अस्यैव (तृतीय-कोट्याः क्रान्तिकारी) आसीत् ।“

(Two Rebels Meet, Dr. Bhagawan Singh Gyani (Pritam), पृष्ठः ५१५, [१०])

अस्माकं पूर्वेषु निबन्धेषु रासविहारी बसुः सदृशः प्रचण्डः दृढनिश्चयी क्रान्तिकारी वर्णितः एव [४],[१३] । अत्र, तस्यान्तःस्थं राजनीतिज्ञं वर्णयाम: । यदा भारतात् पूर्वीय-एष्यातः च तस्य क्रान्तिप्रयासाः असफलाः जाताः, तदा अग्रिमावसराय सः प्रातीक्षत । सः कथम् उषाद्वीपे प्रवासम् उपयुज्य भारतस्य सभ्यतायाः सन्देशं प्रासारयत्, तस्य दासत्व-वेदनाम् औपनिवेशिक-शोषणं च कथम् आख्यापयत्, अपि च भारतस्य स्वातन्त्र्यसंग्रामस्य विषये जागरूकताम् कथम् अजनयत्, इत्येतानि अस्मिन् लेखे वर्णयामः । अस्मिन् अङ्के दर्शयामः यत् कथं परिश्रमेण तद्द्वीपे अभिजातीय-समाजे प्रभावम् अर्जितवान्, कथं भारतस्य वार्तया सह स्वं परिचयं रक्षितवान्, कथं तत्रोषितान् भारतीयान् विशेषतः शरणार्थिनः स्वातन्त्र्यसैनिकान् संघटय्य तेषां साहाय्यं कृतवान् सः । अन्यच्च दर्शयामः यत् कथं भारतम् उषाद्वीपस्य गतिविधिनां विषये न्यवेदयत्, यस्मात् परिपक्व-काले मिथसन्धिम् उपक्रमयितुं शक्नुयात् । निजविश्वासकारणाद् वा भारतस्य उषाद्वीपस्य च प्राचीनसभ्यतयोः निजभावस्य कारणाद् वा, सः एष्यायाः एकतायाः अवधारणाम् अपूषत् । सः भाविपरिस्थितिभ्यः स्वं सज्जीकरोति स्म, तदन्तर्गते भारते आगम्यमानायाः घटनायाः ऊहनं च करोति स्म, येन देशः प्रहर्तुम्, आङ्ग्लेभ्यः स्वं विमोचयितुं च सफल:  भवेत् । तथा सः भारतस्य अनौपचारिकराजदूतरूपे पूर्णतः कार्यरतः आसीत् । एतैः एव असामरिक-कार्यैः (non-military activities), ये दशकद्वय-पर्यन्तं सञ्चाल्यमानाः आसन्, अन्तिमप्रहारस्य प्रतिष्ठापनं कृतम्  –“आज़ाद हिन्द फ़ौज”(स्वतन्त्रभारतसेना) इत्यस्य संस्थापनेन ।

एकदा वल्लभभाई पटेलः क्रान्तिकारिणः (विशेषतः नौसैन्यक्षोभिनः – naval mutineers) प्रकाशं तिरस्कृत्य अवोचत्, “ते शीघ्रकोपिनः यूनः विना सम्बन्धेन परेषां विषये हस्तक्षेपं कुर्वन्ति” इति (पृष्ठः१३४-१३५, [१४]) । तस्मात् हीनतरः वाक् कैश्चन प्रशस्तैः राजनैतिक-समीक्षकैः प्रकटिता – ते क्रान्तिकारिणः “मूर्खाः” इति अगर्हन् । शचीन्द्रनाथः सान्यालः लिखितवान्, “एषु समालोचकेषु ये भीषणप्रज्ञाः सावधानाः च सन्ति ते विना संकोचं क्रान्तिकारिणः मूर्खाः इत्यनेन निन्दन्ति । ‘भारतस्य आधुनिक-समीक्षा’ इत्यस्य प्रतिष्ठित-मासिकस्य प्रांशुप्रज्ञः सम्पादकः क्रान्तिकारिणः उद्दिश्य अभणत्, ‘केचनापि भारतीयाः सशस्त्र-क्रान्तिकारिणः सन्ति चेत् सर्वे भारतीयाः स्वविवेकं स्वबुद्धिं च शंकयन्तु’ इति” (पृष्ठः६७-६९, [९]) । परन्तु तादृशाद् दोषदर्शनाद् विपरीतम्, ये क्रान्तिकारिणः दीर्घायुष्यं गताः ते राजकुशलतायाः बुद्ध्याः च प्रमाणं दत्तवन्तः । बहुगुणः रासविहारी बसुः एतादृशेषु आसीत् एकः ।

भागः१ – मतप्रचारकः युद्धः

दासजनै: स्वतन्त्रतायाः युद्धं विविधानीकेषु योद्धव्यम् भवति । तेषु एकम् अस्ति प्रचारस्य युद्धम्, यस्य उद्देश्यम् अन्ताराष्ट्रिय-समुदाये स्वस्य संग्रामस्य विषये जागरूकताया जननम् अस्ति, यस्माद् दमनकर्तृदेशस्योपरि प्रबलप्रभावः पतेत् । जूनमासे १०, १९३३तमे वर्षे, सुभाषचन्द्रः बसुः प्रचारस्य आवश्यकताम् एवम् अवर्णयत् – “ब्रिटनीय-दुष्प्रचारेण विश्वस्मिन् भारतस्य छविः एवम् अस्ति यथा सः अन्तःकलहेन ग्रस्तः देशः अस्ति, यस्मिन् आङ्ग्लीयपराक्रमः एव स्थैर्यकर्ता अस्ति । नूनं सर्वदेशेषु इव भारते अपि अन्तःकलहः अस्ति, परन्तु गतकाले तान् कलहान् स्वयमेव समाधातुं सफलाः अभूम । ततो हि भारतस्य इतिहासे प्राचीनयुगात् एव बहुधा दृष्टान्ताः साम्राज्याः, यथा महतः अशोकस्य, येषां सौजन्यात् समस्तदेशे शान्ति-समृद्ध्यौ विस्तारं गतौ । अद्यतनकलहाः तु बाह्यकुटिलतन्त्रेण स्थायिनः कृत्रिमाः च वर्तन्ते । ततः मे मनसि मनागपि सन्देहः नास्ति यद् यावत् अस्माकं देशे आङ्ग्लदुःशासनं तिष्ठेत् तावत् जनाः वस्तुतः एकतां लब्धुं न शक्नुयुः । यद्यपि आङ्ग्लदेशे कस्यचिद् राजनैतिकदलस्य किमपि साहाय्यम् नापेक्षितव्यं, तथापि वैश्विकस्तरे भारताय प्रचारकार्यम् नितान्तं महत्त्वपूर्णम् अस्ति । प्रचारः अस्ति-नास्ति-वाचकाभ्यां भवितव्यः । नास्तिवाचके पक्षे, यत्किमपि भारतोपलक्ष्य अनृतं ब्रिटनीय-प्रतिनिधयः ज्ञातमज्ञातं प्रसारयन्ति, तस्य सुधीरं निरसनम् आवश्यकम् । अस्तिवाचकपक्षे, भारतवर्षस्य दीर्घकालीन-सर्वतोमुखी-संस्कृतेः प्रकाशनम्, तथा तस्य बहुविध-दुःखानां निरावरणम् आवश्यकम् । निःसन्देहं, लन्दननगरम् अस्य प्रचारतन्त्रस्य केन्द्रं भवितुम् अर्हति । शोच्यमिदं यत् सद्यःकालं तावत् भारतीय-राष्ट्रिय-कॉङ्ग्रेस् अन्ताराष्ट्रिय-प्रचारस्य महत्त्वम् आवश्यकतां च न परिज्ञातवान् । परन्तु देशबन्धवः आगामिदिनेषु वैश्विक-प्रचारस्य मूल्यं क्रमशः अवगमिष्यन्ति इति आशास्महे । प्रायः ब्रिटनीयस्य किंचिदपि गुणं नास्ति यद् वपुष्यामि तस्य प्रचारकौशल्यं यथा । जन्मना एव ब्रिटनीयः महाप्रचारकत्वे जायते, तेन (दुष्)प्रचारः हावित्सर-शतघ्न्याः बलवत्तरः ज्ञायते । यूरोपमहाद्वीपे एकः एव अन्यदेशः अस्ति यः इदं ज्ञातवान्, सः रूसः । नास्ति आश्चर्यं यद् आङ्ग्ला: तस्मिन् द्विषन्ति, अपि तस्माद् बिभेति, यतोहि सः स्वस्य (ब्रिटनस्य) साफल्यस्य रहस्यम् आविष्कृतवान् । अखिले विश्वे ब्रिटनीयचरैः एतावान् भारतविरोधी-प्रचारः प्रसृते, यदि वयं भारतस्य वास्तविकाम् अवस्थां निरूपयामः तर्हि विपुलमात्रया विश्वसहानुभूतिः एकधा लप्स्यामहे । सम्प्रति कांश्चन विषयान् उल्लेखयामि यस्य सक्रियप्रचारः विश्वस्मिन् आवश्यकः– (१) भारते राजनैतिकबन्दिभि: सह दुर्व्यवहारः, अपि तेषु दीर्घकालिकानां अण्डमानद्वीपे कठोरस्थितौ निर्वासनं, यत्र अनशनाद् अचिरमेव द्वौ मृतौ । (२) पारपत्राणां वितरणे देशवासीनां प्रति अतीव प्रतिशोधस्य भावना । (बहवः स्युः अजानन्तः यद् बहवो भारतीयाः ये बहिर्गन्तुम् इच्छन्ति तेभ्यः सर्वकारेण पारपत्राणि न दीयन्ते । तथा बहिस्थेभ्यः भारतीयप्रवासिभ्यः ये पुनरागन्तुम् इच्छन्ति, तेभ्यः अपि पारपत्राणि लब्धुं दुष्कराणि ।) (३) भारते नियमेन विमानेभ्यः प्रस्फोटक्षेपः, विशेषतः पश्चिमोत्तरे प्रदेशे विवशान् ग्रामीणान् आतङ्कयितुम् क्रियते । (४) ब्रिटनेन पोतनिर्माणसमेतं (ship-building) भारतस्य अन्यस्वदेशीय उद्योगानां गलहस्तनम् । (५) भारते साम्राज्यकीय-वरीयतायाः (Imperial Preference) कस्यापि संविदः भारी विरोधः । (विश्वः निवेदितव्यः यद् ऑटवा-संवित् अस्माभिः नांगीकृता, परन्तु सा अस्माकम् अनिच्छुक-कण्ठेषु निबाढीकृता ।) (६) प्रशुल्कावमोकस्य (tariff truce) व्यापकविरोधः, यतः भारतम् स्वस्य शिशुवताम् उद्योगानां प्रचोदनभावं रक्षां च तीव्रम् अनुभवति । (७) ब्रिटनेन मुद्राविनिमयार्घस्य (currency exchange rate) एकदिशं छलनियन्त्रणं, यस्मात् प्रहस्तनाद् भारतस्य बहुकोटिरूप्यकाणि चोरितानि । (८) अन्यच्च विश्वः ज्ञातव्यं कथं ब्रिटनः भारते ऋणभारम् अबध्नात्, यस्मै राष्ट्रवादिनः किमपि दायित्वं न स्वीकुर्वन्ति । पूर्वं १९२२तमे वर्ष एव गया-सत्रे भारतीय-राष्ट्रिय-कॉङ्ग्रेस् सर्वकारम् इदं न्यवेदयत् । सामान्यज्ञानम् अस्ति यद् ऋणमिदं भारतहिताय स्थाने ब्रिटनस्य स्वार्थेभ्यः संयुतम् । (पृष्ठः२५७-२५९, [१६])”

विट्ठलभाई पटेलेन राष्ट्रकर्मणे अवशिष्टं ₹१००,००० दायम् (पृष्ठः ३६, [१५]) उपयुज्य, सुभाषः बसुः आविश्वम् अनौपचारिकान् दूतावासान् उद्घाटयितुम् ऐच्छत् । पटेलः तेषु अल्पेषु भारतीयनेतृषु आसन् यस्मै विदेशीयप्रचारः अरोचत (पृष्ठः ३६५, [३]) ।

शचीन्द्रनाथः सान्यालः लिखितवान् अस्ति, “अद्यापि भारतस्य नेतागणेन यूरोपामेरिकयोः देशस्य स्थितेः अवबोधनस्य महत्त्वं नावगतम्, यतः यदि अवागमिष्यत् तदा निश्चयेन अवधानेन कार्यम् अकरिष्यत् । एतादृशं, स्वार्थसिद्ध्यै यावद्धनम् आंग्लेयैः प्रचाराय व्ययीकृतं तत् तेन नावलोकितम् । ततोहि यदा कदापि विदेशस्थाः देशीयाः भारतस्य स्वातन्त्र्यसंग्रामं बहुलीकर्तुं प्रयतन्ते, तदा एषः नेतागणः ब्रिटनीयसाम्राजस्य स्तुतिगानं आरभते । (पृष्ठः १४५, [९])”

भागः १ – उषाद्वीपे रासविहारिणा अस्तिनास्तिवाचकौ प्रकारौ

सुभाष-बसुना अज्ञातम्, प्रायः सान्याल-महोदयेनापि, केनचिद् अन्येन बसुना प्रचारकार्यः अयं १८ वर्षेभ्यः पूर्वम् आरब्धः । रासविहारी बसुः अस्ति-नास्ति-वाचकयोः उभयप्रकारस्य सध्री प्रचारं आरब्धवान् । सः भारतस्य सर्वकल्याणकारिणं सांस्कृतिक-योगदानं प्राकाशयत्, युगपत् ब्रिटनेन वर्तमानं शासकीय-दमनम् आर्थिक-शोषणम् अनावरयत् च ।

रासविहारी जूनमासे १९१५तमे वर्षे उषाद्वीपं प्राप्तः । नवम्बर २७, १९१५तमे दिनाङ्के तोक्योनगरे उयेनो-इत्यस्मिन् उद्याने स्थिते प्रख्याते सेयोकिन् इत्यस्मिन् आवासगृहे सः सभाम् एकम् आयोजयत् (पृष्ठः ६, [८], पृष्ठः ५५०, [१०]), यस्मिन् अभिजातीयवर्गस्य राजनायकाः, सम्पादकाः, लेखकाः, अन्यप्रवराः च उषापुत्राः आगताः आसन् (पृष्ठः ५५०, [१०]) । जॉर्ज ओह्सावः सभां व्यवृणोत्, “लाला-लाजपत-रायस्य भाषणेन उषाद्वीपीयाः श्रोतारः समीरिताः अभवन् । प्रत्येकः वक्ता प्रसभेन आङ्ग्लानां क्रूरतां प्राहरत्,” (पृष्ठः ६, [८]), यः नास्तिवाचकं प्रचारं दर्शयति । सभरवालः लिखितवान्, “स्वर्गीयः ह्यू-बायस-वर्यः, यदा सः अमेरिकीयस्वाम्यपत्रिकायाः ‘उषाद्वीपीयः विज्ञापकः’(Japanese Advertizer) इत्यस्याः सम्पादकः आसीत्, तत्कार्यक्रमस्य वृत्तान्ते लाला-वर्यस्य तुलनां वाचस्पत्ये राजनीतिज्ञे च लॉय्ड-जॉर्जेन सह कृतवान्, यः परेद्यवि प्रभाते पत्रिकायां प्रकाशितः (पृष्ठः ५५०, [१०]) । ”सम्मेलनम् एतावत् सफलम् आसीत्, यद् ओह्सावः लिखितवान्, “अनया (संभोजन-भाषणयोः) वार्तया व्यग्रः ब्रिटनीयः राजदूतः उषाद्वीप-विदेशमन्त्रिणः सर्वेषां देशस्थानां भारतक्रान्तिकारिणां देशान्तरस्य अभियाचनाम् अकुर्वन् ।…अग्रिमदिने प्रात: लाला-लाजपत-रायः अमेरिकां पलायितवान्, बसु-गुप्ताभ्याम् अपि आरक्षकालयम् आहूय देशान्तरण-सूचना दत्ता । तौ पञ्चदिनान्तरे देशात् बहिः गच्छताम्” (पृष्ठः ६-७, [८]) । रासविहारी देशान्तरणादेशात् पलायितुं निगूहितः जातः, तत्पश्चात् केषांचित् प्रवराणाम् आयासेन स आदेशः निरस्तः जात: [४] ।

रासविहारी उषाद्वीपे स्थले स्थले परिषत्सु भागम् ऊढ्वा भारतोषाद्वीपयोः मध्ये गाढसम्ब्धान्, भारतसंस्कृतिं, तत्सभ्यतां, ब्रिटनीय-नृशंसताम्, एष्याजनानाम् ऐक्यं च अधिकृत्य गौरवेण उक्तवान् । समये समये सः कोरियादेशम् अपि गत्वा, उ॰ १९३४तमे वर्षे, तत्रत्याः सांस्कृतिक-मनीषिणां मण्डलान् प्रभावयति स्म (पृष्ठ ३३, [८]) । ज़िन्-ईची सुज़ूकी रासविहारिणः भाषणेभ्यः श्रोतृगणे परिणामस्य विवरणम् एवम् आलिखति, “बहुशः बसुवर्येण सह एकमंचात् अभाषे, तदा बसुवर्यः अश्रुपूर्णलोचनाभ्याम् औत्सुक्येन प्राभाषत, यस्मात् सर्वे उषाद्वीपीयाः श्रोतारः मुग्धाः जाताः” (पृष्ठः ४८, [१०]) । तस्मै ‘सिन्सेयि’ (शिक्षकः, गुरुः) इति नामधेयं दत्तं, यत्पश्चात् तस्य स्थानिकाः भारतीयानुगामिनः तदेव नाम्ना तं सम्बोधयन्ति स्म, तथा च उषाद्वीपीयाः अनुरागिणः यैः तन्नाम दत्तं (एस्॰ए॰अय्यर्, पृष्ठः ४४३, [१०]) । उषाद्वीपीय-राजवंशी कश्चचित् राजकुमारः एकवारं १९२३तमे वर्षे रासविहारिणः व्याख्यानं श्रोतुम् आगतः । रासविहारिणः स्ववाक्षु, “१९२३तमे वर्षे भारतविषये व्याख्यातुं तत्रत्याः महागुल्मस्य (regiment) समादेशाधिकारिणा (commanding officer) आमन्त्रितः अहं महामहिम्ना राजकुमार-चिचिबु-वर्येण (यः १९२६तमे वर्षे मृतस्य महाराज्ञः द्वितीयपुत्रः आसीत्) मेलनस्य सम्मानं प्राप्नुवम् । सः अग्रे आगत्य मां हस्तमेलनेन अभ्यवादयत्, ततः भारतस्य वर्तमानावस्थाविषये यद् अवोचम् तत् निश्चलध्यानेन उपविश्य श्रुतवान् सः [७] ।”

उषाद्वापे रासविहारी विस्तरेण लिलेख, भूयशः उषाद्वीपीभाषया, परन्तु आंग्ल्या अपि वंगभाषयापि (स्वल्पमेव) । उषाद्वीप्यां लिखितानि पुस्तकानि एतानि सन्ति – (१) एष्यावर्तीनां क्रान्तीनां विहंगमदृश्यः (१९२९), (२) भारतस्य हास्य-व्यंग्य-चातुर्यम् (१९३०), (३) दलितभारतम् (१९३३), (४) भारतजनानां कथाः (१९३५), (५) क्रान्तिमयः भारतम् (१९३५), (६) तारुण्याः एष्यायाः विजयाः (१९३७), (७) रुदितभारतम् (१९३८), (८) भगवद्गीता (१९४०), (९) भारतस्य करुणामयः इतिहासः (१९४२), (१०) भारतोद्दिश्य कथनम् (१९४२), (११) स्वतन्त्रभारतस्य उदयः (१९४२), (१२) स्वातन्त्र्यसंघर्षः (१९४२), (१३) रामायणम् (१९४२), (१४) रवीन्द्रनाथ-ठाकुरस्य ‘शेषकविता’ इत्यस्य अनुवादः – अन्तिमगाथा इति (१९४३), (१५) भारतीयानां भारतम् (१९४३), (१६) बसुः आह्वयति (१९४४) (पृष्ठः ३४, [८]) । वयम् एतानि अधीतुम् अशक्ताः यतः तानि तावति अनूदितानि न सन्ति । परन्तु नामभिः अस्माकं भासते यत् २, ४, ८,१३, १४ च अस्तिवाचक-प्रचारम् उदाहरन्ति,  इतरतः ३, ५, ७, ९, १२ नास्तिवाचकं च । अन्यच्च रासविहारिणः ‘एष्या-समीक्षा’ (Asian Review) नामकया पत्रिकया सह समीपात् सम्बन्धः आसीत् इति ज्ञातः, यः १९२० वर्षे आरब्धः । नवम्बरः१९२१-पर्यन्तं तत्पत्रिकायां भारताधिकृताः बहुलेखाः प्रकाशिताः, तदभ्यन्तरे सी॰आर्॰दासस्य कविता ‘सागरसंगीतः’, मोतीलाल-रायं तदीयाश्रमम् उद्दिष्टानि सभावचित्राणि निबन्धानि, रवीन्द्रनाथस्य भारतविश्वयोः महद्राजनैतिक-घटनानाम् च उपरि व्याख्यानानि च । तेषां सर्वेषां रचयिता रासविहारी हि स्यात्, यद्यपि सः अनामकत्वेन लिखितवान् यतः सः तदानीं तत्र नागरिकतां न लब्धवान् आसीत् । एषु बहुशः आङ्ग्लभाषायां भारतीयभाषासु वा न अनूदितानि (पस्पशः, [५]) । रासविहारी सुभाषचन्द्रस्य पुस्तकं भारतस्य संघर्ष इत्येनम् उषाद्वीपीयभाषायाम्  अनूदितुं प्रायुजत् (पृष्ठः २५७, [१]) ।

अथ वयम् अस्ति-नास्ति-वाचकयोः प्रकारयोः प्रचाराणाम् अन्यानि कानिचन निदर्शनानि गणयामः ।

भागः २ – अस्तिवाचकः प्रचारः

निक्किः किमुरा कोल्काता-विश्वविद्यालये १५ वर्ष-पर्यन्तं बौद्ध-दर्शनस्य प्रवक्ता आसीत् । सः तत्संस्थायाः उपकुलपतिना वीरोपाधिकृतेन (‘Sir’) आशुतोष-मुख्योपाध्यायेन १९१५तमे वर्षे नियुक्तः । निक्किः किमुरा रासविहारिणम् उद्दिश्य अलिखत्, “सः भारतस्य, तस्य धर्माणां, तथा राजनीतेः कथाभिः अस्मान् परिचेतुं प्रायतत । गान्धीवर्यस्य गतिविधीन् प्रति विशेषध्यानेन सः तस्य प्रसिद्धपुस्तकानां परिचयम् अयच्छत् । अपि च उषाद्वीपः भारतस्य प्राचीनसभ्यताभिः परिचितः अकारयत् (पृष्ठः ११, [१०]) ।” रासविहारिणः आजीवनमित्रं पूर्वशिष्यः च श्रीमन् ज़िन्-ईची सुज़ूकी, तोक्योस्थस्य ‘शिन्-निहोन्-क्योगि-काय’ नामकसंस्थायाः निदेशकः, भारतं प्रति जागरूकतां जनयितुम् उषाद्वीपे रासविहारिणः योगदानम् उल्लिख्य व्यवृणोत्, “लक्षाः कोटयः वा उषाद्वीपजनाः रासविहारिणः नामाभिजानन्ति, तेषां तस्मै सहानुभूतिः अपि अस्ति । अधुनापि, भारतस्य स्वातन्त्र्यसंग्रामस्य चर्चां श्रुत्वा हि ते रासविहारिणः नाम स्मरन्ति । गौतमबुद्धात् ऋते रासविहारी ह्येवं भारतीयः अस्ति येन उषाद्वीपीयानां मनांसि प्रभावितानि सन्ति, तथा यस्मै तत्र जनेषु सहानुभूतिः अस्ति, इत्यत्र नातिशयोक्तिः (पृष्ठः ४८, [१०]) ।” जूलायमासे ९, १९२२तमे दिनांके रासविहारी शचीन्द्रनाथाय तोक्योतः लिखितवान्, “प्रथमदिनेषु यदा अत्र आगतः आसम्, उषाद्वीपीयानां भारतस्य वर्तमानावस्था-प्रसंगे स्वल्पमेव ज्ञानम् आसीत् । मुख्यतः अस्माकं प्रयासैः बलिदानेन च हि प्रत्येकः उषाद्वीपीयः अद्यत्वे भारतस्य वार्तां ध्यानेन अनुसरति । मम बहु उषीद्वीपीयमित्राणि सन्ति, उपरिष्टाद् मन्त्रिमण्डल-सदस्यप्रभृति अधिवक्तारः, विधायकाः, पत्रकाराः छात्राः च । भारतस्य स्वातन्त्र्यसंग्रामेण गान्धीवर्येण च सम्बन्धितानि बहुनि पुस्तकानि प्रकाशितानि, तथा बह्वीषु पत्रिकासु भारतसम्बन्धिनी वार्ता नियमेन प्रकाश्यते । अस्मिन् मासे एव उषाद्वीपविश्वविद्यालयस्य केनचित् प्रवक्त्रा भारतोपरि स्वभाषायां ग्रन्थः प्रकाशितः । अग्रिममासे अहम् सन्ततं दिनत्रयं भारतविषये व्याख्यास्यामि…अद्यत्वे एष्यायाः स्वातन्त्र्यानुकूलं मतम् अत्र बहुशः जनेषु अनुदिनं वर्धते । वृद्धेषु अपि वरिष्ठेषु च व्यक्तिषु पारसिकदेशात् चीनदेशपर्यन्तं नवजागृत्याः सहानुभूतिः लभ्यते (पृष्ठः १३२-१३३, [९]) ।”

भागः २.अ – भारतस्य नेतॄणां प्रशंसा

रासविहारिणः अस्तिवाचके प्रचारे समकालीन-नेतॄणां प्रशस्तयः अपि मिलन्ति, यद्यपि तेषां काश्चित् विचारधाराः तस्य कृते अस्वीकार्याः आसन् । वस्तुतः विदेशस्थाः राजदूताः एतादृशमेव कार्यं कुर्वन्ति किल, निजमतेभ्यः उपरि उत्थाय स्वदेशस्य छविं शोभयितुं प्रतिनिधित्वं कुर्वन्ति ते । उदाहरणतः, सः मोहनदासगान्धिनिर्देशे सर्वदा नत: आसीत्, गम्भीरमतभेदं विहाय । अगस्तः २२, १९२२तमे दिनांके ‘ध्वजधर’ (The Standard Bearer) इत्यस्यां पत्रिकायां गान्धीवर्यस्य सत्याग्रहान्दोलनम् निर्दिश्य सः अलिखत्, “भारतवासिनः श्वेतानां शासनाधीने जीवितुम् अधुना असह्यं भावयन्ति, ततो हि गान्धी तदीयसहयोगिनः च भारते उदभवन् । गान्धी ब्रिटनीयाधिकारिभिः निगडितः कारागारे क्षिप्तः जातः, परन्तु भारतस्य मनसि सुप्रतिष्ठितां कल्पनां ते सुलभेन उत्पाटयितुं न शक्नुयुः । तस्य ३०,००,००००० दृढप्रतिज्ञाः अनुगामिनः पूर्णस्वातन्त्र्यं विना तदान्दोलनं न विरमन्ते (पृष्ठः ३५९, [१०]) ।”सप्ताम्बरे १९३२ मध्ये, यदा गान्धी स्वानशनव्रतं साफल्येन समापितवान्, रासविहारी भारतस्वातन्त्र्यसंधवृत्त्याः (Indian Defence League) अध्यक्षत्वेन इदं निवेदनम् अघोषत, “अद्य प्रातरि पुणेनगरात् आगतया वार्तया आविश्वं भारतीयाः हर्षेणाभिभूताः सन्ति, यत् महात्मा-गान्धी साफल्येन सप्ताहत्रयात् प्रवृत्तं अनशनव्रतं समापितवान्, यत् व्रतं स्वेच्छया, ब्रिटनस्य आतङ्कशासनस्य विरोधप्रदर्शनाय तेन स्वात्मनि गृहीतम् ।

“त्रयात् सप्ताहात् पृर्वं, यदा महात्मा गान्धी ब्रिटनेन भारतस्य दमनं प्रति विश्वस्य साक्ष्यं जागरयितुं तप: इदम् आरब्धवान्, इमाम् अग्निपरीक्षां पारयित्वा जीवितुम् ईहे इति घोषितवान् सः । तस्य वयोगतावस्थायाम्, तदुपरि षन्मासानां कारावासेन क्षतेन आरोग्येन, महात्मागान्धीवर्यस्य चेष्टा भारतजनतायै, विश्वस्मिन् भारतस्य मित्रेभ्यः च, गम्भीरचिन्ताजनका आसीत् । जीविष्यति उत न, इत्यस्मिन् विषये तं परिचरद्भिः वैद्यैः चापि तीव्र: संशयः अभिव्यक्तः ।

परं जीवितुम् एव अपारयत् सः, अपि च अतिजिष्णुतया, तस्य अतिलोलशरीरे महता अध्यात्मशक्त्या वा भगवतः असीमानुकम्पया वा । महात्मा-गान्धीवर्यस्य अद्भुतजयस्य परिणामेन ब्रिटनीय-दुःशासने विप्लावाघातः पतितः इति मन्ये अहम्, अपि च एषः भारतस्य जनेभ्यः विजयस्य असन्दिग्धः सन्देशः अस्ति – भारतस्य स्वातन्त्र्ययुद्धे जयसन्देशः ।

पूर्व-सप्तमासात् अखिलभारतदेशे राष्ट्रवादिनः ब्रिटनविरोधाय भृशं युध्यमानाः सन्ति । महात्मा-गान्धीवर्यस्य आदर्शाः इव देशभक्ताः धौतेन आयुधेन अयुध्यन्, ऋष्वेन उपायेन आचरन् च । भारतम् ब्रिटनस्य अधर्मस्य उत्तरं धर्मेण अददात्, भारतम् ब्रिटनस्य अनृतं सत्याग्रहेन अमिलत्, ब्रिटनस्य छलप्रपञ्चयोः सम्मुखे आर्जवम् अदर्शयत्, ब्रिटनस्य आतङ्क-भर्त्सनौ संयम-धैर्याभ्याम् अमिलत् । राष्ट्रवादिभिः समस्तविश्वस्य पुरतः ब्रिटनस्य दानवप्रवृत्तिः अनावृतीकृता, या पशुवती नीतिः तस्य साम्राज्यस्य आधारशिला अस्ति । निरायुधाः भारतीयाः ब्रिटनस्य नियोजितहिंसायाः प्रकटम् अवहेलनं कृतवन्तः, अग्रे अपि कुर्वन्तः प्रवर्तिष्यन्ते ।

पुणेनगरस्थ-कारावासस्य प्राकाराणां पृष्ठतः, महात्मा-गन्धीवर्यस्य हृदयं चत्वारिंशत्कोटि देशवासिभ्यः असृगस्रावयत् –रक्तपिपासुब्रिटनस्य लुण्ठन-नरसंहारयोः अभियानस्य तेभ्यः बलिपशुभ्यः अस्रावयत् । फर्वरी १०तमे दिनाङ्के च, महात्मा गान्धी स्वस्य अन्तिमम् अस्त्रम् अधारयत् । आङ्ग्लेभ्यः बन्दीकृतस्य तस्य कोऽपि अन्यः अस्त्रः नावशिष्यत ।

घण्टाह्नानि गणयन्तः दीर्घकालं भारतं विश्वं च गान्धीवर्यस्य स्थितेः वार्तायै प्रातीक्षन्त, परन्तु शून्यहृदयांग्लेयानां मनसि कापि सद्भावना नोपजाता । यावद् भारतम् विश्वं च गान्धीवर्यस्य आरोग्यार्थम् आशिष: प्रार्थयन्तौ आस्ताम्, तावद् ब्रिटनीयशासकाः तस्य मृत्युम् आशासत । यावत् विश्वे सर्वे सुमनस्काः भारतार्थं शुभचिन्तनं प्रकटयन्ति स्म, तावत् ब्रिटनः गान्धीवर्यस्य हत्यार्थं भारतराष्ट्रियकॉङ्ग्रेस-दलस्य विनाशार्थं च दुर्योजनां परिकल्पयन् आसीत् । ब्रिटनीयोपराजः गान्धिनं विमोचयितुं भारतस्य याचनां तिरस्कृतवान् । एतावत् यत् सः उपराजः त्रीन् अधिकारिणः पदवीभ्यः अपाकरोत्, येषां नाम्नां तदुपराजः निर्लज्जया दुष्प्रयोगं कृतवान् आसीत् यदा ते गान्धीवर्यस्य जीवनरक्षार्थं प्रार्थितवन्तः ।

परं गान्धी अनशनात् त्रातः । अपि भारतं प्रति अपराधी ब्रीटनीयोपराजः सानुषंगिनः भग्नचेष्टः । अनशनात् जिष्णुतया उद्भवः अयं केवलं गान्ध्यन्तःस्थस्य प्रेरकात्मनः विजयः नास्ति, परन्तु समस्तभारतस्य भवति, भारतस्य धर्मचेतनयोः । अयं विजयः भारतस्य आत्मविश्वासं प्रचोदयिष्यति, यः ब्रिटनसाम्राज्यस्य दुष्टशक्तेः भाविनं विध्वंसम् आनेष्यति । सः विजयः देशवासिनः परमाहुतये प्रचोदयेत्, यस्मात् गान्धिनः जीवनलक्ष्यं प्रत्यक्षं भवितुम् अर्हेत् । महात्मा-गान्धिना अनशनस्य सफलसमापनम् अस्य देशस्य संग्रामे महत्वपूरणं क्रोशदेशकम् (milestone) भवति इति मन्ये ।

अस्मिन् शुभदिवसे, यदा अस्माकं श्रद्धेयनेता महात्मा गान्धी विजयम् एकम् अस्माभ्यः प्रापयत्, अहं भारतस्य सर्वेभ्यः मित्रेभ्यः धन्यः अस्मि, यः अस्मिन् संकटे सहानुभूत्या अस्मान् पुष्ट्यकुर्वन् । पराक्रमिभ्यः ‘अक्ष’-राज्येभ्यः (Axis Powers) तेषां मित्रदेशेभ्यः च, अस्माकं समानशत्र्वोः आंग्लामेरिकयोः विरोधे भारतस्य संघर्षस्य समर्थनं कुर्वद्भ्यः देशेभ्यः, अहं सर्वेषां भारतीयानां हार्दिकं धन्यवादम् उपदातुम् इच्छामि । तथा महोषाद्वीपाय, तस्य भारतस्वातन्त्र्यसहयोगिन्यै अदम्यसेनायै, सर्वेभ्यः पूर्वीयेष्यावासिभ्यः उपकृतभारतस्य दिशः ऋणं प्रकटयामि । वयम् उषाद्वीपीयभ्रातॄणां स्कन्धेन स्कन्धं मेलयित्वा योत्स्यामः यावत् एष्यातः आंग्लामेरिके न निर्गते । पुर्व-सप्ताहत्रये संकटदुविधाग्रस्तदिनेषु, उषाद्वीपीयजनैः सर्वकारेण च यदा आश्वासनं सहानुभूतिः च प्रकटिता, तेन भारतम् कृतज्ञः प्रोत्साहितः च जातः ।

अस्मिन् दिने यदा गान्धी ब्रिटनं पराजयत्, देशविदेशवासिभ्यः भारतीयेभ्यः प्रार्थयामि यत् अस्माकं प्रियनेतुः गान्धिनः जीवनलक्ष्यं प्राप्तुं स्वतन्त्रतायाः इदं संग्रामे पूर्णतः अवगाहन्ताम् । तेभ्यः आश्वासनं ददामि यद् अस्मिन् चक्रे दैवम् अस्मदनुकूलं स्यात् । भारते ब्रिटनः इदानीं महापराजयं गतः, भारतम् अध्यात्मिकविजयं च । अन्तिमप्रहारं कर्तुम् अयम् अस्माकम् अवकाशम् अस्ति । ऐक्यं गच्छेम, स्वात्मनि विश्वस्याम, परमाहुत्यै कटिबद्धाः भवेम च । भारताय अयं गान्धिनः सन्देशः, यत्कृते सः जीवनं बलिदातुं समार्पयत् । प्रत्येकभारतीयः गान्धिनः आह्वानं प्रतिवदेत् । प्रत्येकभारतीयः – सैनिकः, अधिकारी, कर्मकरः, कृषकः च – प्रत्येकभारतीयः ब्रिटनस्य कैतवसाम्राज्यं प्रति उत्थाय तस्य अन्तिमचिह्नं मार्जयितुं युध्येत्, येन साम्राज्येन महात्मागान्धिनं हन्तुं राष्ट्रं मर्दयितुं च निश्चयः कृतः ।

महेश्वरेण संकल्पितः यत् भारतम् स्वतन्त्रः स्यात् । महेश्वरेण इष्टः यत् महात्मागान्धी स्वतन्त्रभारतं नेतुं जीवेत् ।“ (पृष्ठः २१५-२१८, [१०])

नूनं खलु प्रश्नः उद्भवति यद् रासविहारिणः लिखिता कियती स्तुतिः आर्जवासीत् कियती च सार्वजनिकप्रेक्षानिमित्तम् एव । मनसि निधातव्यं यत् रासविहारिणा वर्णितः स्वातन्त्र्यगम्यः पथः गान्धिनः अहिंसाहठात् दूरं व्यावर्तत । वस्तुतस्तु, गान्धिनः अहिंसायाः कैवल्याग्रहः नासीत्, प्रत्युत केवलं हिन्दवः एव कानपि आक्रामकान् प्रति मा हिंसयन्तु इति आग्रहः आसीत् । प्रथमविश्वयुद्धे, यदा गान्धी ब्रिटनपक्षे सेनायां भारतीययूनां नामांकनाय अभियानम् अचालयत्, तदा रासविहारी सशस्त्रोपद्रवेण ब्रिटनं भारतात् अपाकर्तुं प्रायतत । अपि च गान्धी भारतस्य वैश्विकेस्लामिकानां (Pan-Islamists) ‘ख़िलाफ़त्’-आन्दोलनस्य समर्थनं कृतवान्, यद्यपि तदान्दोलनम् अहिंसकं नासीत् । तत्प्रत्युत, रासविहारी निजराजनैतिकयात्रां क्रान्तिकारीरूपेण आरभत । सः कदापि स्वातन्त्र्यसंग्रामकार्ये हिंसाम् न अभद्रायत । भारते सशस्त्रोपद्रवस्य आह्वानं कृते सः १९२४तमे वर्षे उषाद्वीपे ‘भारतस्वातन्त्र्यसंधवृत्तिम्’ (Indian Independence League) पर्यकल्पयत्, यस्य संस्थापकाध्यक्षः अभवत् (पृष्ठः ५६१, [१०]) । तेन सह १९२४तमे वर्षे सामीप्येन संवादीकृतेन नेद्यम्-राघवन्-वर्यात् निशामयामः, “अस्माकं नेतॄन् प्रति, यथा महात्मागान्धी-पण्डितनहरूवर्यौ इत्यादिनः, सः समाद्रियते स्म । किंच, तस्य परिभावना आसीत् यत् यतोहि ते भारते वसन्तः आसन्, ततः तेषाम् आन्देलनपद्धतिः अपि निर्बन्धेन कायांचित् सीमायां परिछिन्ना भवितव्या आसीत् । कथनाय क्षन्तव्यः अहं, परन्तु सः अहिंसायां न विश्वसिति स्म, तथा च वारं वारं स्वप्रत्ययं पुनरुक्तवान् यत् हिंसाहिंसे उभय अस्माकं देशस्य विमोचनार्थं कार्यं कुरुताम् । तस्य मतौ, उभयो अपि धार्मिकपुरुषार्थं धार्मिकोपायौ स्तः” (पृष्ठः ४३८, [१०]) । अत्र राघवन् गान्धीनहरूं कृते रासविहारिणः आदरस्य ‘प्रदर्शने’ टिप्पणीं करोति, ततोऽपि सः निर्दिशति यद् रासविहारी तयोः आन्दोलनतन्त्रं परिछिन्नम् इति अवर्णनयत्, अपि च हिंसामहत्वे तस्य प्रत्ययस्य साक्ष्यं अददात् । तदनु स्वपर्याये सुभाषचन्द्रबसुनः नेतृत्वे स्वतन्त्रभारतसेना ब्रिटनामेरिकाभ्यां सह युद्धम् अघोषयत् ।

जन्वरी १९३८-अभि सुभाषबसवे लिखिते पत्रे, रासविहारी स्वविचारधाराविषये असन्दिग्धतरः जातः, यत् विचारेषु सः तम् अपि सभागम् अमन्यत स्यात् । अस्मिन् पत्रे, यत् सार्वजनेभ्यः न लिलेखिषितं, सः स्वप्रत्यायनं प्रकटीकृतवान् यत् भारतम् केवलेन बलेन उद्धरितुं शक्ष्येत, न शिक्षाशौच्यादिभिः । लक्षतां यत् गान्धी कॉङ्ग्रेसकार्यकर्तृभिः उपक्रान्तायाः समाजसेवायाः सोत्साहं समर्थनं कृतावान्, यत्कार्यक्रमेण स्वतन्त्रतान्दोलनात् मानवादिसंसाधनानि अहीयन्त । सः स्वयं च अस्पृश्यता-विरोधे अनेकानि अनशनानि आचरत् । अग्रे तत्पत्रे, अहिंसामुग्धानाम् अभिमानं, तेषाम् आत्मविमोहकवाक्यानि च, तेन हास्यास्पदानि कथ्यते – यस्मात् अपरिहार्यम् अवसानं लभ्यते यत् सः तत्पत्रे गान्धिनः सर्वासां मान्यतानां विरोधे अतिष्ठत् । किं विडम्बनं यत् तत्पत्रं सुभाषचन्द्रबसोः हस्तौ अप्राप्य ब्रिटनस्य र्दीर्घहस्तयोः पतितम् ।

केनचित् असहमते सति तस्य आदरं नूनं कर्तुं शक्येत, परन्तु अत्र मतभेदं मौलिकम् आसीत् । ततोहि, रासविहारिणा प्रदर्शितायाः गान्धीस्तुत्याः कंचिद् भागं केवलं विश्वे भारतस्य छविं भूषयितुम् कृतम् आसीत् । अन्ताराष्ट्रिय-संचारमाध्यमैः गान्धिने बहु ख्यातिः प्रचारः च उत्पादिताः, येषु कार्येषु ब्रिटनस्य अपि पृष्ठास्फालनम् आसीत् [८], यस्य परिणामे तस्य सन्तः इव छविः लोकप्रिया जाता । उदाहरणतः ‘ओसका-मैनिची’ इत्यस्याः उषाद्वीपीय-पत्रिकायाः गान्ध्योपरि कस्याश्चित् वार्तायाः सम्बन्धे ‘ध्वजधर’ (The Standard Bearer) इत्यस्याः पत्रिकया साकं जन्वरी २३, १९२३तमे दिनांके रासविहारिणः पत्राचारद्वारा ज्ञातं, “यद्यपि तेषां किमपि अन्योऽन्यसाम्यं नास्ति, गान्धी, कमालः मुसोलीनिः च एकस्याः एव श्रेण्याः पुरुषाः सन्ति यः आधुनिके समरोत्तरे विश्वे (Post-World War I) विख्यातप्रभुतां प्राप्ताः । भारतस्वातन्त्र्यसंग्रामस्य नायकः, महात्मागान्धी, राजद्रोहस्य अभियुक्त्या कारावासे अस्ति, परन्तु सः समस्तराष्ट्रं स्वेन साकं नयति । कमालः पाषा (Kemal Pasha ‘Ataturk’), तुरुष्काणां नपोलियन्, स्वदेशस्य भाग्यं स्वांगुलीषु गृहीतवान् अस्ति । इतल्याः फ़ासी-पक्षस्य (Fascist Party) नायकः मुसोलीनिः एतावान् शक्तिमानः जातः, यत् संसदः अनिश्चितकालीनं स्थगनं पश्चात् सः तत् राष्ट्रस्य अभिनायकः इव राजते । परं तेषु त्रयेषु लोकवीरेषु गान्धी अतिमहत्वपूर्णः स्यात्, यतः सः केवलं राजनायकः नास्ति परन्तु आध्यात्मगुरुत्वेन अपि ध्यायते, यस्य अहिंसायाः अप्रतिरोधस्य च सिद्धान्तं भारतस्य सर्वजनाः स्वीकुर्वन्तः सन्ति, मेषाः मेषपालम् अनुसरन्ति यथा । अन्यौ द्वौ स्वविक्रान्त्या सैन्यबलेन च शक्तिं प्राप्नुताम्, अपरत्र भारतस्य वीरः गान्धी केवलं स्वाद्भुतचरित्रस्य आध्यात्मिकाकर्षणेन जनशक्तिं प्राप्नोत्, अनिच्छन् इव । यदपि स्यात्, अस्य नायकत्रयस्य स्वस्वदेशे उत्थानम् इदं प्रमाणयति यत् विश्वे सामान्यजनैः मानवपूजा जीविता अस्ति” (पृष्ठः ३७४-३७५, [१०]) । रासविहारी गान्धिनः ख्यात्याः बलवर्धकरूपेण कार्यम् अकरोत्, यतोहि गान्धिनः ख्यातिः भारतस्य स्वतन्त्रतासंग्रामस्य ख्यात्या तादात्म्यं प्राप्ता आसीत्, एवं च  तत् माध्यमेन पूर्वैष्यास्थितानां भारतीयानां समर्थनं संचेतुं शक्येत ।

१९३७तमे वर्षे सावरकरस्य ब्रिटनीयकारावासात् विमोचनपर्वणि, रासविहारी ‘दाई आज्या शुगी’ (‘बृहदेष्यावादः’) इत्यस्याम् उषाद्वीपीयपत्रिकायां १९३९ मार्चाप्रैलमासाङ्कयोः तस्य चरितम् अलिखत् । सावरकरस्य विमोचनं राष्ट्रस्य नेतॄणां पृथुगोचरेण स्वागतीकृतम् आसीत् इति दर्शयितुं सः राजगोपालचारी, सुभाषबसुः, एम॰एन॰रायः सदृशान् नायकान् उद्धृत्य, तेषां दृष्टिकोणान् एवम् उपसमहरत् –  “सावरकरविषये प्रभावशालीनां नायकानाम् उपर्युक्ताः दृष्टीः संकलयामि चेत्, सावरकरः ‘वीर्यस्य, शौर्यस्य, साहसस्य, देशभक्त्याः निष्कर्षः च’ । ‘तस्य प्रशंसा बलिदानभावनायाः प्रशंसा एव’ । सः एव ‘येन भारतस्य स्वातन्त्र्याग्निः सदोज्ज्वला रक्षिता, सः देशभक्तः अस्ति यः २०तमे शतकारम्भे स्वातन्त्र्यार्थं प्राणान् त्यक्त्वा अदीव्यत् । अन्यच्च आधुनिकयुगे सः सांस्कृतिकराष्ट्रवादस्य (Cultural Nationalism) प्रणेता अस्ति’ । ”तदनन्तरं रासविहारी सावरकरस्य जीवनचित्रम् आलिखत् यस्मिन् स हिन्दुराष्ट्रवादविषये तथा सैन्यमहत्वविषये तस्य विचाराणां संक्षिप्तविवरणं प्रास्तौत् । (१) “सर्वान् भारतवासिनः समानतया दर्शयितुं युक्तिहीनः प्रयासः । तुर्कीदेशः तुरुष्काणां राष्ट्रम्, तथैव भारतम् हिन्दूनां राष्ट्रः, यस्मिन् अन्यमतावलम्बिनः अल्पसंख्यकाः च । “सावरकरेण ‘हिन्दोः’ परिभाषा “यः सिन्धुनदीं अभितः स्थितेषु क्षेत्रेषु श्रद्दधानः, सः” इति प्रतिपादिता । (२) सुचारु चिन्तनं वा न वा, सैन्यबलम् आवश्यकम् एव । शतघ्नीनां बलेन राष्ट्राः आदरणीयाः वर्तन्ते । शतघ्नीं विना शान्तिः नास्ति । अन्ताराष्ट्रियसहयोगम् उपयुञ्जामहै । स्वतन्त्रता कस्याश्चिद् विचारधारायाः महत्वपूर्णतरा । प्रथमं बलवान् स्वतन्त्रः च वर्तामहै । चीनविजयी उषाद्वीपः साधुः वा न वा इत्यस्य महत्त्वं नास्ति । जगत् स्वदेशानां रक्षां स्वयं पालयति । यूयं कस्यापि अन्यदेशस्य साह्यं नापेक्षध्वम् ।“ स्वलेखं समाप्तवता तेन लिखितं, “त्वं सावरकरेण सह अनुकूलः चेत् राजनैतिकशक्तिः त्वया सह भवति, सः तु भारतस्वातन्त्र्यसंग्रामे शक्तिशाली व्यक्तित्वम् [११] ।”(उषाद्वीपीतः मूललेखस्य आंग्लानुवादम् एनं रणजीत-सावरकरः, स्वातन्त्र्यवीर-सावरकर-राष्ट्रिय-स्मारकस्य अध्यक्षः, अस्मभ्यं भाजितवान् ।)

भागः २.आ – उषाद्वीपे भारतस्य पाकशैल्याः प्रचालनम्

१९२०तमे दशके रासविहारी तस्य श्वशुरस्य ‘नाकामुर्या’-भर्जन्यां कार्यकारिण्याः सदस्यःअभवत् (पृष्ठ ५९, [१०], [२]) । तत्र सः ‘इन्दो-करी’ नामकस्य देशीय-व्यञ्जनस्य परिचयं कृतवान् (पृष्ठः ६, [२]), यस्य सामग्रीणाम् आपूर्तिश्रृङ्खलायाः (supply chain) प्रबन्धम् अपि परिकल्पितवान् ([६]) । रसल-कोह्नाभ्याम् उपलक्षितम्, “सामान्य-भारतीय-व्यञ्जनानां मूल्यात् अतिगरीयसि सत्यपि, तद्व्यंजनं लोकप्रियतां गतं, तथा रासविहारी ‘नाकामुर्यायाः बसुः’ इति विख्यातः जातः । अधुनापि तोक्योमहानगरे सा भर्जनी लोकप्रियतमेषु‘करी’-उपाहारगृहेषु एका (पृष्ठः ६, [१२]) ।“ २०११ वर्षपर्यन्तम् अपि उषाद्वीपिनः ‘शिंजुकु-नाकामुर्यायाः इन्दो-करी’-व्यञ्जनस्योपरि अन्तर्जाले लेखनावलीः (blogs) रचितवन्तः सन्ति । तावत् पर्यन्तं तद् व्यंजनं परिवेषितम् आसीत् एव ([२]) । नाकामुर्यायाः जालस्थाने रासविहारिणा सह वंगशैल्या शाटिकया वेष्टितायाः तोशिको-वर्यायाः भावचित्राणि दृश्यन्ते, इति भाति([६]) ।

भागः ३ – नास्तिवाचकः प्रचारः

भारतस्य आर्थिकशोषणं निरूपयता रासविहारिणा लिखितं ‘भारतम् – एकः रुधिरकोशः’ इत्यस्मिन् निबन्धे –“अद्यत्वे भारते रुधिरकोशानां प्रचलनं वर्धमानम् अस्ति, न्यूनातिन्यूनम् आंग्लेयाधिकारिषु । नाश्चर्यः अस्मात् । विश्वे सर्वत्र रुधिरकोशानां परिकल्पने, स्वदेशद्वीपस्य आर्थिकपुष्ट्यार्थम् अन्यराष्ट्राणां रुधिरचूषणे च आंग्लेयाः दक्षाः ।

अचिरादेव विमानाक्रमणैः हतेषु रुधिरं संक्रामयितुं (blood transfusion) भारते आपत्कालीनान् रुधिरकोशान् उद्घाटयन्तः सन्ति आङ्ग्ला: । परन्तु, द्विशतवर्षेभ्यः समस्तः भारतवर्षः पञ्चसहस्रमील-दूरस्थेभ्यः चतुष्कोटि ब्रिटनीयेभ्यः एकः महारुधिरकोशरूपे सेव्यमानः अस्ति ।

ब्रिटनस्य आगमनात् पूर्वं भारतम् विश्वस्य सम्पन्नतमः देशः आसीत् । अधुना, भारतस्य चत्वारिंशत्कोटि जनाः ब्रिटनस्य ‘सौम्य’-शासनाधीनाः स्वेषु निर्बलेषु अस्थिपञ्जरेषु जीवन्ति, दारिद्र्ये, दुर्भिक्षे, महामारीषु, क्षुधि च । अयं ब्रिटनीयः पिशाचः आत्मानं पुनर्जीवयितुं भारतस्य जीवरुधिरं चूषितवान्, ततः शतकद्वयात् वर्षात् परमपि भारतस्य कण्ठे इमं घातकं हस्तग्राहं परित्यक्तुं नेच्छति ।

बृहन्मात्रायां लुण्ठनं ब्रिटनीय-पूर्वाभारतीय-निगमाय (British East India Company) सामान्यव्यापारः आसीत् । प्रत्यक्षधनसम्पदः लुण्ठनं, अपि च येषां भारतीयाः उद्योगाः ब्रिटनीयव्यापारे प्रतिस्पर्धयितुं शक्ताः तेषां योजनाबद्धः विनाशः – ईदृशैः तन्त्रैः ब्रिटनः भारतस्य रुधिरं आस्रावयन् आयाति । भारते दस्युराजत्वेन स्वं स्थापयित्वा सः तदनन्तरं मानगौरवादीनां वर्णिकां धारितवान्, परन्तु लुण्ठनं तथैव अनुवर्तमानं प्राचलत् । ते भारतस्य आर्थिकशोषणं तथैव पूर्ववत्या निष्ठुरतया कारितवन्तः, यद्यपि तेषां तन्त्रशैली सूक्ष्मतरा जाता । विशेषवाणिज्याधिकारः (special commercial privileges), पुंजीनिवेशे एकाधिकारः (monopoly of capital industries), प्रशुल्कभेदः (discriminative duties), नौवहनस्य तटीयसंचारस्य च प्ररोधनं – एतत् सर्वं आहत्य अस्मिन् नवपर्याये भारतस्य शोषणस्य शोधिततन्त्रम् अस्ति । तत् सर्वम् अतिरिच्य, अद्यापि ब्रिटनस्य गञ्जे नौरक्षार्थं प्रदानं, तस्य भारताधिग्राही-सेनायै विपुलतया आवण्टनं, तथा ब्रिटनीयतन्त्रमानिनां निवृत्तिवेतनानां व्ययः च प्रचलति । तन्न केवलम् । पौण्ड-रूप्यकमुद्रयोः विनिमयार्घः तेषाम् इच्छया नियुक्तः । अस्याः संज्ञायाः अधः एव, आङ्ग्लदेशं प्रति विप्रेषणेषु, यथा पुंजीवेतनेषु, प्रेषिताय प्रतिरूप्यकाय भारतस्य द्विपेंस-मिता(pence) हानि: जायते । एतैः प्रकारैः ब्रिटनीयाः पिशाचाः भारतस्य जीवरुधिरं चूषयमानाः सन्ति, यद्यपि ब्रिटनीय-पूर्वाभारतीय-निगमस्य निर्लज्जेन विना तथापि तादृशेनैव निराशङ्केन एव ।

ब्रिटनः जानाति यत् अस्य रुधिरचूषणस्य अन्तः समीपः । ततो हि ते भारतस्य आर्थिकजीवनं निर्वापयितुं स्वस्य दुश्चेष्टां घनी कुर्वन्तः सन्ति । तदन्तर्गते ते सद्यः एव स्वसमीपे भारतेन न्यस्तानि कोट्याधिक-नवनवति-लक्ष-पौण्डाणि अहरन्त । अन्यच्च भारतस्य अधिकानि षट्कोटिपौण्डाणि मासान्तरे भक्षयितुं भर्त्सयन्ते । एतैः सर्वैः असन्तुष्टाः, पूर्वस्मात् मासत्रयात् ते भारतस्य क्षुब्धकृषकेभ्यः ‘सामूहिकार्थशास्तिं’ (collective fines) बलात् संगृह्णन्तः सन्ति । भारतस्य क्रान्त्याः प्रथमे मासत्रये ते भारतीय-ग्रामीणानां कोट्याधिकपंचचत्वारिंशत् रूप्यकाणि अलुण्ठयन् ।

एवं भारते ब्रिटनीयाः विश्वस्य बृहत्तमं रुधिरकोशं निर्मितवन्तः, येन ४० कोटिजनानां रुधिरम् आस्रावयित्वा स्वदेशस्य ४ कोटिजनानां विलासितां जगदैश्वर्यं च रक्षन्ति ।

परन्तु एते ४० कोटि भारतीयाः ब्रिटनस्य लघु-लघु-उपकारार्थं कृतज्ञाः भवन्तु ! महद् औदार्येण ब्रिटनः निःसंगं भारतस्य केषु अपि कोणेषु रुधिरकोशान् स्थापितवान्, यस्मिन् आरोग्यवतां भारतीयानां हि रुधिरः अनुदीयते, प्रायः च तेषु आंग्लेयेषु संक्रामयितुं ये विमानाक्रमणेषु अन्यसमरगतिविधिषु वा व्रणिताः ।” (पृष्ठः २१०-२१२, [१०])

द्वितीय-विश्वयुद्ध-समये, ब्रिटनस्य राजनैतिकं पाषण्डं जातिभेदं च वर्णयता रासविहारिणा तर्जनात्मकः लेखः सम्पादितः, “भारतम् स्वं राजयति” इति –“ब्रिटनीयाः पाषण्डाः तैः प्रवंचिताः भारतीयचाटुकाराः च सर्वेभ्यः स्वेदपूर्णम् अनुरोधं कुर्वन्ति यत् ब्रिटनः भारताय पूर्णस्वराजं निश्चयेन दास्यति – युद्धात् परं एव नाम । अधुनापि ब्रिटनः व्यावहारिकरूपेण भारताय ‘स्वातन्त्र्याभासस्य’ प्रतिज्ञां निर्विचारं वारं वारं घोषयति । ते तावन्तः निष्कपटाः सन्ति यत् तैः नावगम्यते यदा भारतीयनेतारः एनं प्रस्तावं  यथार्हं तिरस्कुर्वन्ति । तेषां निष्कपटतायाः प्रमाणत्वेन एते ब्रिटनीयाः तेषां भारतीयचाटुकाराः च ब्रिटनस्य भारतेन सह स्वतन्त्रदेशसदृशान् विविध-व्यवहारान् निर्दिशन्ति । प्रतिसप्ताहं, ब्रिटनीयाधिकारिणः, उपरिष्टात् राष्ट्रसचिवपदात् लघुराज्यानां राज्यपालाः-पर्यन्तं, सर्वे नियतरूपेण अस्मान् भारतीयान् स्मारयन्ति यत् ब्रिटनीय-उपराजस्य (Viceroy) कार्यकारी-परिषदि ३ ब्रिटनीय-पार्षदैः अपेक्षया ११ भारतीय-सदस्याः सन्ति । ततः भारतीयाः विश्वसन्तु यत् ते अद्यापि स्वतन्त्राः एव जीवन्ति ।

तले तु अयं तर्कः हृदयग्राही प्रतीयते । परं यदि तं तलं कण्डूयेत् तर्हि ब्रिटनस्य पाषण्डः दरीदृष्यते । सत्यमेव, ३ ब्रिटनीयपार्षदैः अपेक्षया ११ भारतीयपार्षदानां दलं अतिबाहुल्यम् अस्ति ननु । ततोहि भारतीयाः एव भारतं नियन्तारः खलु ? – इति ब्रिटनीयपाषण्डाः पृच्छन्ति ।

परन्तु ते विवशाः, पथभष्टाः, आत्मीयत्यागिनः भारतीयपार्षदाः ब्रिटनीयोपराजस्य निरंकुशशासनस्य विरोधेन, तथा रक्षा-वित्त-संचाराणां नियन्तॄणाम् आङ्ग्लपार्षदानां विरोधेन किं कर्तुं शक्नुयुः ? यतः ब्रिटनीयोपराजः सर्वेषु महत्सु विषयेषु स्वपरिषदः ११ भारतीयसदस्यान् उपेक्षितुं शक्नुयात् । युद्धावस्थायां सुरक्षानाम्नि ब्रिटनीय-सेनाप्रधानः (commander-in-chief) सर्वं नियन्त्रयितुं शक्नुयात्, अपि तथैव आचरन् सः सेनाप्रभृति लवण-शर्करा-मृत्तैलानां विक्रयणं, दरिद्रतम-ग्रामीणस्य आवश्यकताः नियन्त्रयति । सः उपराजं विहाय अन्यान् सर्वजनान् आज्ञापयितुं शक्नुयात् ।

युद्धकालिकार्थव्यवस्था-नाम्नि ब्रिटनीयवित्तपार्षदः देशस्य आयव्यययोः प्रत्येक-सेन्टं (cent) निरीक्षते । तदीयाः सर्वे भारतीयसहकारिणः, अतिविज्ञप्तं भारतीय-रक्षा-पार्षदं वीरोपाधिकृतं फ़िरोज़-ख़ान-नून-वर्यम् उपादाय, स्वस्व-विभागाय प्रत्येक-सेन्टार्थं तस्य समीपं सभिक्षापात्रं उपगच्छेयुः । तथाकथित-भारतीय-रक्षापार्षदस्य स्वपदवीं ६०००-रूप्यकात्मकं वेतनं च विहाय अन्यत् किमपि रक्षितुं नास्ति । रिक्तसमये सः तस्य ६०००-रूप्यकात्मकायाः सुखदनियुक्त्याः दातॄणां ब्रिटनीयस्वामीनां प्रजापीडक-प्रभविष्णुतां रक्षितुम् अर्हेत् । भारतस्य वास्तविकं रक्षाकार्यं केवलं ब्रिटनीय-सेनाप्रधानस्य अधीने निहितम् अस्ति ।

कियत् सत्यं नाम ब्रिटनीयानां पाषण्डी डम्बरः, यत् भारतीयाः हि भारतस्य नियन्तारः ?

लोभाविष्टाः ब्रिटनीयाः वास्तविक-राजसत्तायाः लेशमात्रमपि भारतीयेभ्यः भाजयन्ति इति कथं अपेक्षसे ? ते भारते संप्रभुत्वेन लुणठकत्वेन अधितिष्ठन्ति, अग्रे अपि तथैव अधिस्थातुम् इच्छन्ति, यावत् भारतीयाः एव तान् न अपाकुर्वन्ति ।

ब्रिटनीयाः भारतीयान् महत्त्वपूर्णासु पदवीषु साधिकारं कदापि न नियोजयिष्यन्ति, यतोहि ते स्व-संप्रभुत्वार्थं बिभ्यति । तत्रान्तरे, भारतीयाः हि भारतं नियन्त्रयन्ति इत्यनेन पाषण्ड-प्रचारेण ते सर्वान् भारतीयान् अपि विश्वजनान् मोहितुं प्रयतमानाः भविष्यन्ति ।

ब्रिटनीय-पाषण्डस्य अधिकं प्रमाणम् इच्छसि किम् ? नवीनम् एतत् । ब्रिटनीयोपराजेन रक्षासेवायै पत्रतारयोः प्रेषणावस्थायाः (Postal and Telegraphic Services) निरीक्षार्थम् आयोगम् एकं नियुक्तम् । परन्तु, अस्य आयोगस्य अध्यक्षः कः भवेत् ? भारतीयः वा ? हे परेश ! नहि । अवकाशमपि नास्ति । भारतीयेभ्यः स्वातन्त्र्याभासं दत्तवन्तः उदारचेतसः ब्रिटनीयाः तेभ्यः इतोऽपि स्वातन्त्र्यं दद्युः इति कथम् अपेक्षसे ? रक्षाविषयेन दूरसम्बन्धिनं किमपि कार्यं स्वदेशरक्षार्थं कस्मैचित् भारतीयाय विन्यस्यन्ति इति कथम् अपेक्षसे ? नहि, पाषण्ड-ब्रिटनात् अत्याकांक्षा सा । रक्षापार्षदत्वेन ते कंचन भारतीयं ‘वीर’-फ़िरोज़-खान-नून-वर्यं नियोजितवन्त एव किल, यद्यपि तस्य शक्तयः केवलं सैन्यावासं सैन्यचिकित्सालयं च निरीक्षितुं सीमिताः वर्तन्ते ? रक्षासेवाभ्यः पत्रतारयोः प्रेषणावस्थायाः निरीक्षा अपि कस्मैचित् भारतीयाय न उचिता । ब्रिटनीयाय एव केवलम् । ततोहि तत्कार्यं ब्रिटनीयाय दत्तं, तदपि सेवानिवृत्ताय कस्मैचित् ।

भारतम् भारतीयैः नियन्त्रितः, भारतम् व्यावहारिकरूपेण स्वतन्त्रः, इति ब्रिटनीयपाषण्डेन वंचितेभ्यः एव वास्तवम् ।

वन्दे मातरम् ।” (पृष्ठः २१२-२१४, [१०])

सन्दर्भसूची

[1] Subhas Chandra Bose, Congress President, Speeches, Articles, and Letters January 1938-May 1939, Collected Works of Netaji, Vol. 9, edited by Sisir Kumar Bose and Sugato Bose

[2] http://justhungry.com/indo-karii-nakamuraya-shinjuku-tokyo-plus-three-degrees-curry-hotness

[3] Subhas Chandra Bose “Indian Struggle”

[4] Saswati Sarkar, Jeck Joy, Shanmukh, Dikgaj Rashbehari Bose’s second war from East Asia – battleground Japan and Singapore http://www.dailyo.in/politics/rashbehari-bose-sachindranath-sanyal-japan-revolutionary-china-indian-freedom-struggle-second-world-war/story/1/9745.html

[5] Rash Beharir Atma-katha O dushprapya Rachana, edited by Amal Kumar Mitra

[6] http://indianfoodreviews.blogspot.in/2013/11/curry-and-freedom-fighter-rash-behari.html?m=1

[7] Rashbehari Bose, “Anachronistic Admiration”, Standard Bearer, May 1927, Vol-1, No-1, Pages 55-57

[8] JG Ohsawa “The Two Great Indians in Japan”

[9] Sachindranath Sanyal “Bandi Jiban”

[10] Rashbehari Basu – His Struggle for India’s Independence, Editor in chief, Radhanath Rath, Editor Sabitri Prasanna Chatterjee, Biplabi Mahanayak Rash Behari Basu Smarak Samiti

[11] https://www.blogger.com/blogger.g?blogID=6910465149498857638#editor/target=post;postID=1825410271313671015;onPublishedMenu=allposts;onClosedMenu=allposts;postNum=0;src=postname

[12] Jesse Russel, Ronald Cohn: Rashbehari Bose

[13] Jeck Joy, Saswati Sarkar, Shanmukh, Dikgaj “The legend of Rashbehari Bose and the forgotten Hindu-German conspiracy’’ http://www.dailyo.in/politics/rashbehari-bose-hindu-muslim-riots-partition-1947-mahatma-gandhi-independence-hindu-german-conspiracy-ina/story/1/8230.html

[14] BC Dutt Mutiny of the Innocents, Sindhu Publications Pvt Ltd, Bombay-1, 1971

[15] Subhas Bose, The Alternate Leadership, Speeches, Articles, Statements and Letters, June 1939-1941, Collected Works of Netaji, Vol. 10

[16] Subhas Chandra Bose, The Anti-Imperialist Struggle and Samyavada, Presidential Address at the Third Indian Political Conference, London, 10 June, 1933, India’s Spokesman Abroad, Netaji Collected Works, Vol. 8, Letters, Articles, Speeches and Statements, 1933-1937,    pp. 240-263

Disclaimer: The facts and opinions expressed within this article are the personal opinions of the author. IndiaFacts does not assume any responsibility or liability for the accuracy, completeness, suitability, or validity of any information in this article.