Takshashila
 
भारतम् – वैश्विक-शैक्षणिक-केन्द्रतः निरक्षरतायाः कन्दरायाम् – १

प्राचीनभारते गुरुकुलेषु आश्रमेषु शिक्षा गुरुदत्ता l ते आश्रमाः स्थिताः नागरिक-वसाहतेभ्यः दूरमेव वने, अतः ते “अरण्य-शिक्षाकेन्द्राणि”

The article has been translated into Sanskrit by Hiren Dave (@HerryDev12)

१९०१तमे वर्षे रवीन्द्रनाथटेगोरेण प्रस्थापिता शाला “शान्तिनिकेतनम्” गते काले विद्यापीठे रुपान्तरिता | रवीन्द्रनाथस्य स्थानः शिक्षणविदत्सु ये अधिवक्तारः यत् “योग्य-गुरु-सान्निध्ये च निसर्गे (In the laps of nature) चैव शिक्षणस्य प्राप्तिः” |

प्राचीनभारते गुरुकुलेषु आश्रमेषु शिक्षा गुरुदत्ता | ते आश्रमाः स्थिताः नागरिक-वसाहतेभ्यः दूरमेव वने, अतः ते “अरण्य-शिक्षाकेन्द्राणि” (Forest Universities) | अनाश्चर्यं यत् विश्वस्य प्राचीनतमे मौखिकज्ञाने (वेदेषु) संस्कृति-जिवजन्तु-निसर्ग-सहजीवनं च तादात्म्यं च वर्णितम् | एतेषु आश्रमेषु प्राथमिकता यत् विद्यार्थिभिः विद्याध्ययनात् प्राक्, अनन्तब्रह्माण्डे, स्वस्य अस्तित्वस्य ज्ञानप्राप्तिः अनिवार्या |

गते काले, एतेन शिक्षण-व्यवस्था-प्रसारणेन तक्षशिला च नालन्दा च बहूनि मन्दिर-शिक्षाकेन्द्राणि (दक्षिणभारते एतावत्पर्यन्तं अवशेषाः दृश्यमानाः) च आविर्भूताः | समुद्रमार्गेण वा भूमिमार्गेण वा कठिनायात्रां कृत्वापि ज्ञानेच्छुकाः चीन-कोरिया-जापान-इन्डोनेशिया-पश्चिमएशियातः भारतम् आगताः | फा-हि-यान् च ह्यु-एन्-त्साङ्ग चिव ज्ञानेच्छुकौ तु स्व-ज्ञानयात्रा-वृत्तान्तमपि गतविहितौ | केचन ज्ञानपिपासुभिः तु प्राप्तविद्याज्ञानयोः सङ्कलनं हस्तप्रतानि वा प्रतिकृतयः रूपेण स्वदेशमपि नीतवन्तः | प्राचीनकाले भारतस्य गुरुभिः च शिक्षाकेन्द्रे च शिक्षाप्राप्तेः उन्मादः अद्यतने काले अमेरिका-युरोपयोः शिक्षाकेन्द्रोन्मादः इव एव तीव्रः |

भारतस्य बहुविधशाखा-शिक्षाकेन्द्राणि विद्यापीठरूपे स्वीकर्तुं आधुनिकाः इतिहासकाराः च बुद्धिजीविनः अगम्यशङ्किताः आधुनिकेन (शिक्षणव्यवस्थाविधानं च अतिरिक्तलेखितज्ञानं च विशालतरभवनरचना च) कारणेन | अतएव सेचननीकायानां, वर्षाजलसञ्चयानां, महालयानां, अजेयदूर्गाणां, विशालमार्गाणां रचयिताः भारतीय-अभियन्तरः बुद्धिमन्तः अपि धृतसरलवस्त्राः च प्रकटवक्षभागाः इति कारणे व्यावसायिकरूपे अस्विकृताः | ते अभियन्तृभिः शिक्षाप्राप्तिः एतेषु प्रसिद्धेषु विद्यापीठेषु एव न तु अन्यस्थानेषु इति लक्षणीयम् | तथैव च व्याधिनिवारणार्थं नाना औषधमिश्रणानां च मिश्रणप्राप्तेः च मिश्रणोपयोगानां च ज्ञातरश्च चिकित्सकाश्च आध्यात्मिक-दृष्टिकोण-सुबद्धाः अपि विगणिताः भिषक्पाशाः वा यातुमन्तः वा | एतदाश्चर्यं न वा ?

शिक्षा – पवित्रः धर्मः

प्राचीनभारतजनेषु सविशेषा उत्कण्ठा ज्ञातुं – पदार्थं च तस्य स्वरूपं च भौतिकतां च आध्यात्मिकतां च तथा नाशवन्तं चैव शाश्वतं च | अतः एतान् द्रष्टिकोणान् ज्ञातुं भारतीयजनैः विज्ञानं – गणितं – चिकित्सा – इव बहुक्षेत्रान् कर्षिताः (खेटिताः) | तैत्तरियोपनिशद्वाक्यम् “आचार्य देवो भव” च इव अन्याः संस्कृतप्राप्तबहुश्लोकाः दर्शकाः गुरुशिक्षायाः यथार्थतासिद्धिम् | अक्षरज्ञानारम्भः (शिक्षारम्भः) एकः समारोहः भारते | अधुनापि बङ्गाले च दक्षिणभारते च एतस्याः परम्परायाः अवशेषाः दृश्यमानाः | बालकाय उपनयनसंस्कारः तु द्विजसंस्कारः एव यः शिक्षारम्भसूचकः अपि | पूर्णशिक्षाभ्यासे गुरुणा नगण्या गुरुदक्षिणाप्राप्तिः अतः शिक्षा न तु व्यापारार्थम् इति |

प्राचीनभारतस्य अरण्य-विद्याकेन्द्राणि

महाभारतग्रन्थे नैकानि अरण्य-शिक्षाकेन्द्राणि उल्लेखितानि यथा शौनकमुनिसञ्चालितं नैमिषारण्यम् | व्यास-वसिष्ठ-विश्वामित्रैः सञ्चालितानि केन्द्राणि अपि उल्लेखितानि | कुरुक्षेत्रस्य समीपे उपस्थिते विद्याकेन्द्रे तु स्त्री-ऋषी उल्लेखिते | पैलश्च वैशंपायनश्च सुमन्तुश्च जैमिनी च वेदव्यासस्य प्रसिद्धाः शिष्याः | ऋषिकण्वस्य आश्रमः तस्य अध्यक्षतायां केन्द्रबिन्दुः नैकानां आश्रमाणां | आश्रमेषु सर्वविद्याशाखेभ्यः विशेषज्ञाः नियुक्ताः | काश्चन शाखाः – वेदश्च वेदाङ्गानि च यज्ञाधारितशास्त्रं च न्यायशास्त्रं (Law) च भौतिकविज्ञानं (Physics) च जीवशास्त्रं (Biology) चादयः | गणित-भूमिति-ज्ञानम् अनिवार्यं विविधयज्ञरचना-निर्माणार्थम् | न कापि भेदरेखा धर्म-विज्ञानयोः मध्ये | अन्योन्यपूरकौ एव | द्रव्यगुणशास्त्रं (Properties of Matter) च प्राणिशास्त्रं (Zoology) च अन्ये शाखे | अतः अरण्यकेन्द्राणि संपूर्णशिक्षाकेन्द्राणि ये विद्याप्रदानकर्ताः विश्वदर्शनहेतवः |

भारतस्य अन्यशिक्षाकेन्द्राणि

भारते शिक्षाकेन्द्राणि यत्र तत्र सर्वत्र उपलब्धाः | उत्खननतः प्राप्तः तक्षशिला विद्यापीठः भारतस्य प्राचीनतमं विद्याकेन्द्रम् | षष्ठं शतकं तस्य कालः किन्तु अधिकप्राचीनतममपि शक्यम् | विभाजनात् परं तु पाकिस्तानस्य रावलपिण्डी-जनपदे | नालन्दा च वल्लभिश्च विक्रमशिला च पुष्पगिरिश्च जगद्दला च ओडन्तपुरी च सोमपुरं च विक्रमपुरं च रत्नगिरिश्च मिथिला च उज्जैनी च काञ्चीपुरं च अन्यानि शिक्षाकेन्द्राणि प्राचीने भारते किन्तु एषा सुचिः तु अपूर्णमेव | यावत् पर्यन्तं एतादृशानां शिक्षाकेन्द्राणां अधिकावशेषाः लभमानानि पुरातत्वकर्मिणः | शिक्षाविद्याकेन्द्रं च इष्टिका-वज्रलेप-मिश्रणतः (Brick Cement Mixed) कृतं विद्यापीठं च अन्योन्यपार्श्वे अपि शक्यम् |

श्वेतकेतुः तक्षशिलायाः विद्यार्थी कलाक्षेत्रे पदवीधारकः | व्यावहारिककलासंग्रहार्थं भारतभ्रमणं तेन कृतम् | परम्परानुसारेण महाभारतग्रन्थस्य सर्वप्रथमगानं वैशंपायेन तक्षशिलायामेव मन्यमानम् l बुद्धजातक-कथानुसारेण तक्षशिला विद्यायाः परमं धामम् | ४०५ तमे वर्षे फा-ही-यानस्य तथा ६३० तमे वर्षे ह्यु-एन्-साङ्गस्य तक्षशिलायाः अभ्यागमनम् |

कलेभ्यश्च संस्कृतभाषावृद्धये च तक्षशिलायाः योगदानम् अत्यन्तम् | कौटिल्यविरचितम् अर्थशास्त्रग्रन्थस्य रचना सञ्जाता तक्षशिलायामेव | चरकः आयुर्वेदस्य प्रणेता अपि तक्षशिलायाः विद्यार्थी च तदनन्तरं तस्मिन्नेव शिक्षकः अपि | पालिग्रन्थानुसारेण विख्यातः वैद्यश्च चिकित्सकश्च जीवकः तक्षशिलाया एव छात्रः | पाणिनिः नियमबद्धसंस्कुतव्याकरणस्य कर्ता अपि तक्षशिलायाः उत्पादः | तक्षशिलाविद्यापीठः सुविख्यातछात्राणां जननी इति निर्विवादि-सत्यम् | जातककथानुसारेण वेदज्ञानमपि पाठितं एतस्मिन् शिक्षाकेन्द्रे | अष्टादशकलाज्ञानमपि पाठितम् | एताः कलाः वैज्ञानिक-यान्त्रिक-अभिगम्याः, न तु सामान्याः | विशिष्टानि विद्यालयानि वैदकशास्त्राय च न्यायशास्त्राय च सैन्यप्रशिक्षणाय | बाणविद्या तु मनोनिता विद्या, या सम्भूय १०४ विद्यापिपासून् पाठिता | छात्रस्य आर्थिकपरिस्थितिकारणेन तेन सह कदापि कोऽपि भेदभावः न आचरितः अतः भेदभावरहिता शिक्षणव्यवस्था विद्यापीठे |

मगधराजः बिम्बिसारः एकदा नाडीव्रणरोगात् (Fistula) मुक्तः जातः जीवकेन प्रयत्नेन अतः मगध-बौद्धसंघस्य प्रमुखचिकित्सकस्य पदं जीवकं दत्तम् | उज्जैनीराज-प्रद्योतः अपि पाण्डुरोग (Jaundice) मुक्तः जीवकस्य चिकित्सातः एव | जीवकेन एकः व्यापारी शिरोवेदनातः मुक्तः इति प्रसङ्गः अपि वर्णितः l तेन रोगिणः शय्याबद्ध्वा शिरत्वचाछेदनं कृत्वा व्रणतः कृमिद्वयं निवार्य व्रणपिधानं कृतः इति शस्त्रक्रिया पूर्णिकृता | जटिल-आन्त्र-शस्त्रक्रियायामपि जीवकः श्रेष्ठश्च सिद्धश्च |

व्यावहारिकं प्रशिक्षणम् – शिक्षायाः महत्वपूर्णं घटकम्

प्रयोगशालाः प्रायोगिकपरिक्षणेभ्यः समृद्धाः l वैदकीयशाखायां औषध-वनस्पतिज्ञानस्य महत्ता l निसर्गाभ्यासः आतुरताजागृत्यर्थं श्रेष्ठः l विद्यार्थिभिः विदिताविद्या-प्रदर्शनम् अनिवार्यं यथा जीवकेन प्रदर्शिताः सफलशस्त्रक्रियाः l पूर्णे विद्याभ्यासे एतादृशाणि प्रदर्शनानि आयोजितानि जनित्रसन्मुखे अपि l शिक्षणस्य यथार्थतार्थं विद्याकेन्द्रसूचितं विपुलं परिभ्रमणमपि आवश्यकम् l मुख्यत्वे धनिकपरिवारात् आगतानां छात्राणां कृते एतादृशं परिभ्रमणम् अत्यावश्यकम् l

नालन्दा – ज्ञानस्य दीपस्तम्भः

ह्यु-एन्-साङ्ग च यीजिङ्ग च इव चीनीयात्रिकेषु लेखेषु महत्तमं वर्णनं प्राप्तं नालन्दाविद्याधामस्य l विश्वस्य सर्वकोणतः ज्ञानपिपासूणां आगमनं नालन्दाविद्याकेन्द्रे विनिस्मृतम् l प्रवेशानुमतिः नालन्दायां लेशमात्रमपि न सरलम् l ह्यु-एन्-साङ्गस्य लेखनानुसारं ज्ञातं यत् नालन्दायाः प्रवेशपरीक्षा अतीव कठिना l २०% छात्रा एव तरितुं समर्थाः तथापि ८५०० छात्राश्च १५०० शिक्षकाः नालन्दास्थिताः कोऽपि समये l बहुनि प्रशिक्षणकेन्द्राणि अपि उपलब्धानि नालन्दा-प्रवेश-परीक्षा-तरितार्थं तस्मिन् समये ये अद्यतन-स्पर्धात्मक-परीक्षा-प्रशिक्षण-केन्द्राणि इव एव l

नालन्दा-परीक्षा-उत्तीर्णाः छात्राः समाजे मानपानलब्धाः च उच्चस्थानप्राप्ताः च, अतएव नालन्दायाः प्रमाणपत्राणां अवैध-प्रतिरूपकाणि (Illegal Copies) अपि प्रचलने l सप्तमशतकपर्यन्तं विहारप्रदेशे (Bihar) नालन्दाप्रेरिताः पारस्परिक-सहयोगिनः इव विद्याकेन्द्रचतुष्टयम् l दशमशतकतः तस्मेभ्यः विक्रमशिला-विद्याकेन्द्रं नालन्दायाः स्पर्धकरूपेण विकसितम् l

विशाल-विषयश्रेणीः पाठिताः नालन्दायाम् – तात्विका (Philosophical) च प्रायोगिका (Practical) च वैज्ञानिका (Scientific) च कलात्मका (Artistic) च इतराः श्रेणयः अपि l नालन्दायां पञ्चवर्षतः पठितः ह्यु-एन्-साङ्ग-प्रमाणेन इयं विषयश्रेणिः तस्य समयस्य सर्वश्रेष्ठा विषयश्रेणिः l तेन योगशिक्षाप्राप्तिः नालन्दायाः श्रेष्ठतम-योगगुरु-शीलभद्रतः l न्यायशास्त्रं च हेतुविद्या च शब्दशास्त्रं च पाणिनिरचितं संस्कृत-व्याकरणमपि तेन पठितानि l एका वार्ता अपि तेन उल्लेखिता – काञ्चीपुरमे एकदा लङ्कातः आगतैः मुनिभिः सह  गोष्ठीसमये, तस्य शीलभद्रात् प्राप्तं भारतीययोगज्ञानं उत्तमं प्रमाणितम् जातम् l

कालक्रमे नालन्दा संरक्षणप्राप्ता गुप्तवंशेन, हर्षेण तथा पालराजवंशेन l नालन्दा स्थायी-धनराशि-बद्धा, एतैः राजवंशैः, संवर्धनार्थं च ज्ञानप्रसरणार्थं च l स्थायीधनराशिकारणेन नालन्दायां गगनचुम्बीभवनानि च सुन्दराणि भवनानि च निर्मितानि तथा प्रभातसमये धूमिकाच्छादिता वेधशाला (Observatory) अपि निर्मिता l ह्यु-एन्-साङ्ग-प्रमाणेन मुख्यप्रवेशद्वारम् परितश्च विशालाङ्गणानि परितश्च उन्नतभित्तिनिर्माणम् l अष्टोपकक्षेभ्यः एकस्मिन् उपकक्षे आवागमनं शक्यम् इति रचना l गगनचुम्बीभवनानां शिखरकक्षाः इव सघनभाषिताः l उन्नतकक्षेभ्यः आकाशस्य अनेकविधऽरोहावरोह-दर्शनं, सूर्योदये च सूर्यास्ते च चन्द्रशासने च, आह्लादकानुभवः एव l अष्टमशतकस्य यशोवर्माराजस्य शिलालेखेऽपि एतादृशमेव लिखितम् l नीलकमल-मलिनरक्तकनक-पुष्पाच्छादित-पारभासी-जलाशयाः नालन्दायाः भूमिसौन्दर्याय अभिवृद्धिकराः l मदोद्धताः आम्रवृक्षाः समग्र-वातावरणाय च विद्यापीठाय शीतलकराः l समृद्धभवनानां भव्यबाह्यतायाः तु भवनानां आन्तरिक-कलात्मक-सुन्दरतया तादात्म्यम् l

वादः (Debate) – महत्वपूर्णं शिक्षाङ्गम् प्राचीने भारते

भारतस्य दार्शनिकप्रणाल्यां तर्कश्च वादश्च विशिष्टौ l एतैव प्रणालितः प्राथमिक-प्रजातन्त्रस्य जन्मः l सा प्रणालि एतावत्पर्यन्तमपि भारतस्य ग्राम्यविस्तारेषु प्रचलने l अद्यतन-विधानसभायां/लोकसभायां (Legislative Bodies) एता प्रणालिः दृश्यमाना किन्तु अधोगतरूपे एव l वादविद्या-तर्कशास्त्रोल्लेखः रामायण-महाभारत-मनुसंहिता-स्कान्दपुराण-छान्दोग्योपनिशद्-याज्ञवल्क्यसंहितायाम् l

प्राचीनग्रन्थेषु वादपरिभाषा सुविकसिता – साध्य (विषयः यः सिद्धियोग्यः), सिद्धान्तः (चर्चान्ते प्राप्तः निर्णयः), हेतुः (वादस्य कारणम्), उदाहरणम् , साधर्म्य (समानता), वैधर्म्य (असमानता), प्रत्यक्षता, अनुमानम् (Inference) , प्रमाणम् (Proof) इति l मैत्रेयरचिते वादशास्त्रटिकायां स्पष्टं यत् वादविषयस्तु अर्थसभरः न तु अर्थहीनः l अपरं च विद्वत्सभायां वा विद्वद्जनसन्मुखे एव वादस्य आयोजनं न तु इतरस्थले l संवादस्तु जयपराजय-नियम-बद्धः एव l अन्योन्यशास्त्रप्रवीणता संवादार्थं अनिवार्यम् l अभद्रभाषा तु वर्ज्या तर्हि मानमर्यादा तु ग्राह्या l अभयः च सत्यवादी च अस्खलितवक्ता इव संवादी l अधुनैव अपि सुवक्त्रे च संवादिने च एते गुणानेव प्राधान्यता l

नालन्दायां वाद-चर्चा-संवादादि आयोजिताः विद्यार्थिणां बुद्धिप्रतिभापरीक्षार्थं च तुलनात्मकाभ्यासार्थम् l यथायोग्य-विचार-तर्क-सिद्धान्त-दार्शनिकरूपदाता सन्मानितः पारितोषिकमाध्यमेन l मुक्तचर्चा-तर्कसङ्गतवादोत्तेजने प्राचीने भारते विद्याकेन्द्राणां योगदानम् अभूतपूर्वम् l प्राचीनभारतस्य राजानः अपि चर्चा-वाद-संवाद-प्रियाः खलु l राजसभायां विद्वज्जनाः च विजेता पण्डितश्च सदैव पारितोषिकेण सन्मानिताः l

नालन्दायां स्थितम् एकं समृद्धं च प्रसिद्धं च दुर्लभग्रन्थसभरम् च अतिविशालं ग्रन्थालयम् l भवनत्रयं ग्रन्थालयस्य – रत्नसागरः , रत्नदधिः , रत्नरञ्जकः इव l रत्नसागरस्तु नवाट्टी-भवनम् l सर्वनवाट्टेषु पवित्रग्रन्थाणां संग्रहः l इदानीं तु अस्मभ्यं कल्पनाविषयः एव ग्रन्थालयस्य भव्यता !!

विद्याकेन्द्रयोः स्पर्धा च सहकारश्च

प्राचीन-गुजरातराज्ये स्थिते वल्लभि-विद्याकेन्द्रं नालन्दायाः समकक्षं स्पर्धकं चापि l एतत् विद्याकेन्द्रं सुविख्यातं तस्य विषयवैविध्याय | देशविदेषेभ्यः विद्यापिपासूणां आगमनं वल्लभि-विद्याकेन्द्रे स्नातकपदवीम् (Graduate Degree) प्राप्त्यर्थम् |

अष्टमे शतके धर्मपालराजेण निर्मितं विक्रमशिला-विद्याकेन्द्रमपि नालन्दायाः स्पर्धकं तथापि सहयोगी अपि | तिब्बतदेशस्य (Tibet) संस्कृत्यै आकारदातारः प्रायेण विक्रमशिलायाः विद्यार्थिनः एव | दीपाङ्करश्रीज्ञानः मुख्यः तेषु महाजनेषु |

मिथिला-विद्याकेन्द्रं अपरं विख्यातं शिक्षा-केन्द्रं न्यायशास्त्र-विज्ञान-विषयाभ्याम् | इतिहासकारानुसारेन एतद्विद्यालये पारिवेषितस्य ज्ञानस्य चोरीतः अनुकरणं कृत्वा बाह्यविश्वाय प्रदानम् अत्यन्तं कठिनंम् कोऽपि छात्राय | अपि च वर्गे पाठितविषयग्रन्थः वा प्रतिकृतिः वा अपि वर्गात् बहिः आनेतुम् अननुमतिः |

मिथिलायाः एकाधिकारः भङ्गिकृतः नदीया-विद्याकेन्द्रेण यद् विख्यातम् न्यायशास्त्राभ्यासाय | पञ्चदशशतक-दन्तकथानुसारेन एकदा मिथिलायां वासुदेवसार्वभौमः निषिद्धः कृतः कोऽपि ग्रन्थस्य प्रतिलेखस्यार्थे | तदनन्तरं सः निष्कासितः नदीया-केन्द्रे सम्बद्धः जातः किन्तु संपूर्णः “तत्वचिन्तामणिग्रन्थः” च अधिकांशः “कुसुमाञ्जलिग्रन्थः” च स्मृतिबद्धौ कृत्वा | नदीयाकेन्द्रे सा ज्ञाननिधितः नूतना न्यायशास्त्रशाखायाः उदयः जातः तस्मात् अल्पसमये एव  नदीयाकेन्द्रः प्रत्याख्यातः मिथिलाम् |

उज्जैनी-विद्याकेन्द्रम् – विज्ञानज्ञ-खगोलज्ञ-गणितज्ञ-भ्रमराणां भ्रमरवृत्तिस्थानः

खगोलशास्रे गणितशास्रे च उज्जैनीविद्याकेन्द्रेण स्वप्रतिभया विश्वे अनन्यता प्रस्थापिता | तस्मिन् शून्य-अक्षांशे (0 ̊ Latitude)  एका वेधशाला स्थापिता, या समर्थिता विश्वस्य मुख्य-याम्योत्तर-रेखा (Prime Meridian) | विश्वविज्ञानधूरायाः गते युरोपखण्डहस्तके, अद्य मुख्य-याम्योत्तर-रेखा तु शून्य-रेखांशे (0 ̊ Longitude) स्थिते ग्रीनविच-स्थलः | भारतस्य कृते महाविप्लुतिरेव खलु |

वराहमिहिरस्य परम्परां अग्रे प्रेषकः ख्यातिप्राप्तः खगोलशास्त्री ब्रह्मगुप्तः अपि उज्जैनिवासी एव | त्रिकोणमिति-सिद्धान्ताः (Trigonometry) च वर्गात्मक-समीकरणं (Quadratic Equation) च चतुर्भुजस्य क्षेत्रफलं (Area of Quadrilateral) च समान्तरश्रेणी (Arithmetic Progression) इव भूरि गणितक्षेत्राः तेन खेटिताः | अपरं च आर्यभट्टस्य ज्या-कोष्टकमपि (Sine Table) तेन शुद्धिकृतम् | विश्वे सर्वप्रथमवारं शून्यस्य सङ्ख्यारूपस्वीकृतिः ब्रह्मगुप्तेन दत्ता एव | तस्य ब्रह्मस्फूटसिद्धान्तग्रन्थे शून्यस्य उल्लेखः सङ्ख्यारूपे तेन कृतः | सङ्ख्यारूप-शून्यस्य प्राथमिकानि समीकरणानि १+०=१, १-०=१, १x०=० इति अस्मिन् ग्रन्थे प्रस्थापितानि | बगदादनगर-खलिफातः अल्–मन्सुरतः एतस्य ज्ञानस्य ख्यातिः संप्राप्तः जातः | ततः एतत् ज्ञानं युरोपखण्डे प्रविष्टम् |

भास्कराचार्येण (ब्रह्मगुप्तात् परं उज्जैन्याः अधिखगोलशास्त्री) एता परम्परा चोदिता ततः परम् | सिद्धान्तशिरोमणिः च लीलावती च ग्रन्थयोः रचयिता एषः भास्कराचार्यः एव l भास्कराचार्येण यानि कानि अपि सिद्धानि तानि सर्वतः युरोपखण्डे बहुशतकेभ्यः परम् अनुसंप्राप्तः जातः – इति सुलिखितं “New Encyclopedia” ग्रन्थे J.J. O’Connor च E.F. Robertson च सुज्ञाभ्याम् | दशांश-पद्धत्या गणितग्रन्थस्य सर्वप्रथमलेखनकर्ता तु भास्कराचार्यः एव | विकलनस्य (Differential Calculus) जनकः अपि भास्कराचार्यः एव | विकलनस्य विनियोगः अपि तेन दर्शितः न्युटन-लेइब्निझयोः पूर्वमेव | इस्लामिक-गणितज्ञाः अपि प्रभाविताः भास्कराचार्यतः | (क्रमशः)
दक्षिणभारतस्य मन्दिरशिक्षाकेन्द्राणि, वैश्विकज्ञानधारां प्रभावितं कर्तुं कार्ये भारतीयविद्वतां सिंहभागः, संस्थानिकसमये कृशकाया भारतीयशिक्षणव्यवस्था च – लेखस्य द्वितीयभागे l

Sahana Singh is a writer/editor who specializes in environmental issues, current affairs and Indian history. She is a member of Indian History Awareness and Research (IHAR), a think tank headquartered in Houston.